________________
उत्तराध्ययन
सूत्रम् २०६
||5 ||51 ||
||७|| ||७|| iel चतुरङ्गीयनाम is तृतीय
मध्ययनम्
|| Isl
||
foll
चाणक्यचन्द्रगुप्तौ च, स च पर्वतको नृपः । पुरे प्रवेष्टुमाजग्मु-स्तदैवानन्दमेदुराः ।।१०६ ।। तदा च सा नन्दसुता, चन्द्रगुप्तं निरक्षत । सद्यो जातानुरागा च, जज्ञे तत्सङ्गमोत्सुका ।। १०७।। चन्द्रगुप्तास्यचन्द्रैक-चकोरायितलोचनाम् । वीक्ष्य स्वनन्दनां नन्दो, निरानन्दोऽब्रवीदिदम् ।। १०८।। हे पुत्रि ! यद्यसौ सौम्यो, रोचते ते युवा तदा । आश्रयामु द्रुतं राज-पुत्र्यो हि स्युः स्वयंवराः ।। १०९।। याहि याहि त्वदुद्वाह-चिन्तया सह सत्वरम् । तेनेत्युक्ता मृगाक्षी सा, रथादुदतरत्ततः ।।११०।। चन्द्रस्य च रथे याव-त्साऽऽरोढुमुपचक्रमे । दैवात्तावदभज्यन्त, द्रुतं तस्यारका नव ।। १११।। अमङ्गलकरीं तां च, ज्ञात्वा चन्द्रो न्यवारयत् । चाणक्यस्तं ततोऽवादी-द्वत्सेमा मा निषेधय ।। ११२।। यदनेन निमित्तेन, सुन्दरोदर्कवादिना । पुरुषानव यावत्ते, वंशो भावी महद्धिकः ।। ११३।। मूर्त्तामिव श्रियं चन्द्र-स्तामथारोपयद्रथे । नन्दसम्पदमादातुं, तद्गहे ते त्रयोऽप्यगुः ।। ११४ ।। तत्र चैकाऽभवत्कन्या, गरलीभूतभूघना । आजन्माभोजयत्तां हि, नन्दराड् विषमं विषम् ।। ११५ ।। तां च पर्वतक: प्रेक्ष्य, जज्ञे गाढानुरागभाक् । चाणक्योऽपि ततस्तस्मै, तां ददौ धिषणानिधिः ।। ११६ ।। तदैव तस्या विवाह, प्रारेभे स महीपतिः । सङ्क्रान्तगरलश्चाभू-त्सद्यस्तत्पाणिसङ्गमात् ।।११७ ।। विषव्याप्तवपुः सोऽथ, चन्द्रगुप्तमिदं जगौ । हे मित्र ! याम्यहं मूर्छा-मुरगग्रस्तवद्धशम् ।। ११८ ।।
IIsil ||sll
Ifoll 16 liell 16
Holl
le ||sl lol
llol 116l llsil
sil ||sil ||sil 16
lall llroll ||Gll
lel
||sill
Jain Education interna
For Personal & Private Use Only
www.jainelibrary.org