SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २०५ 1♠♠♠SSS♠♠♠STD Jain Education Internationa तदङ्गीकृत्य चाणक्य-वाक्यं पर्वतको नृपः । सचन्द्रगुप्तः प्रारेभे, नन्ददेशस्य साधनम् ।। ९३ ।। पुरमेकं तु तेनैव, ग्रहीतुमशकन् बलात् । विवेश तत्र चाणक्यो, भिक्षायै भिक्षुवेषभृत् ।। ९४ ।। तत्र वास्तूनि सम्प्रेक्षमाणः सोथ त्रिदण्डिकः । सकलापाः सप्त देव्यो ऽपश्यदिन्द्रकुमारिकाः ।। ९५ ।। अभङ्गं तत्पुरं तासां, प्रभावादवबुध्य सः । मयैताः कथमुत्थाप्या, विममर्शेति यावता ।। ९६ ।। तावत्तं पुररोधार्ता:, पप्रच्छुरिति नागराः । भगवन् ! पुररोधोऽयं, कदा खल्वपयास्यति ? ।। ९७ ।। ततः प्रोवाच चाणक्यो, यावदत्र भवन्त्यमूः । देवीनां प्रतिमास्ताव-त्पुररोधक्षतिः कुतः ? ।। ९८ ।। पौरास्तेऽथ ततः स्थानात्ताः क्षिप्रमुदपाटयन् । धूर्तेः प्रतारितानां हि, नाऽकार्यं किञ्चिदङ्गिनाम् ! ।। ९९ ।। तदा चाणक्यसङ्केता-चन्द्रपर्वतकावपि । पलायेतां द्रुतं तच्चा ऽऽकयञ्चैर्मुमुदे जनः ।। १०० ।। भूयो व्याघुट्य तौ क्षिप्र-मग्रहीष्टां च तत्पुरम् । नन्ददेशं च चाणक्य-धियाऽसाधयतां रयात् ।। १०१।। प्रवर्धमानसैन्यादि-संयुतास्ते त्रयोऽप्यऽथ । अवेष्टयन्नन्दपुरं, निधानमिव भोगिनः । । १०२ । । तदा च क्षीणपुण्यत्वात्, क्षीणबुद्धिपराक्रमः । चाणक्यस्यान्तिके नन्दो, धर्मद्वारमयाचत ! ।। १०३ ।। ततः प्रोवाच चाणक्य - स्त्वमेकेन रथेन यत् । नेतुमीशस्तदादाय, पुरान्निर्याहि निर्भयः ।। १०४ । । नन्दोऽपि द्वे स्त्रियौ कन्या मेकां सारधनानि च । रथेऽधिरोप्य नगरा-त्रिर्ययौ दीनतां गतः । । १०५ ।। For Personal & Private Use Only SSTTTTE ॥७॥ ॥ चतुरङ्गीयनाम तृतीयमध्ययनम् ॥७॥ [2222222222 २०५ jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy