________________
ial
Ioll
llell
el
Mal चतुरङ्गीयनाम
उत्तराध्ययन-
सूत्रम् २०४
16ll lioll Ioll
तृतीय
मध्ययनम्
Nell lol
Noll Msil
||sil
IGl llol
lell
lel
sil ll
ततो हत्वा स तद्भोज्यं, चन्द्रगुप्तमभोजयत् । सोप्यतिक्षुधितोऽज्ञासी-न तद्रसविपर्ययम् ! ।। ८०।। मौर्ययुक्तोऽथ चाणक्यो, ग्राममेकं दिनात्यये । अगात्तत्र च भिक्षायै, भ्राम्यन् रोरगृहं ययौ ।। ८१।। तदा च तस्य गेहस्य, स्वामिन्या वृद्धयैकया । बालानां भूयसामुष्ण-रब्बाऽभूत्परिवेषिता ।। ८२।। तस्यामेकः शिशुर्बाढं, क्षुधितः प्रक्षिपन् करम् । दग्धाङ्गली रुरोदोञ्चै-स्तं च वृद्धत्यऽभाषत ।। ८३।। वेत्सि चाणक्यवनैव, किञ्चित्त्वमपि मूढ रे ! । तनिशम्याऽथ चाणक्यस्तां पप्रच्छेति सादरम् ।। ८४।। वृद्धे ! त्वया कुतश्चक्रे, चाणक्योऽत्र निदर्शनम् ! । वृद्धबुद्धिस्ततो वृद्धा, चाणक्यमिदमभ्यधात् ।। ८५।। यथा हि पूर्वं चाणक्यो, बाह्यं देशमसाधयन् । रुन्धान: पाटलीपुत्रं, मूढः प्राप विगोपनाम् ।। ८६।। बालकोऽपि तथैवाय-मलिहन् परितः शनैः । मध्य एव क्षिपन् पाणिं, दाहमत्युग्रमासदत् ।। ८७।। चाणक्यस्तत एवास्य, तुलामारोपितो मया । महानपि हि निर्बुद्धि-र्बालादपि विशिष्यते ।।८८।। तच्छ्रुत्वा योषितोऽप्यस्याः, शस्या धीरिति चिन्तयन् । चाणक्यो हिमवत्कूट-सन्निवेशं ततो ययौ ।। ८९।। तत्र राज्ञा पर्वतकाभिधेन सममुत्तमाम् । चाणक्यो विदधे मैत्री, काङ्क्षन् साहायकं ततः ।।९०।। अन्येद्युरिति चाणक्य-स्तं प्रोचे चेत्समीहसे । नन्दमुन्मूल्य तद्राज्यं, विभज्यादद्वहे तदा ।। ९१।। मम बुद्धिबलं सैन्यं-बलं च भवतोऽतुलं । कार्येस्मित्रिमिते विश्व-श्लाघ्यतां लभतां सखे ! ।।१२।।
ISM
IIslil
Nell
sil
||sh
||sil
Jell
Isl Gll
Jisil
lol
Hell
lish
२०४
llsil
Isl llall
161 lell
liall
ला Join Education into
For Personal & Private Use Only
isil Hothww.jainelibrary.org