________________
उत्तराध्ययन
सूत्रम् २०३
||७|
IS चतुरङ्गीयनाम Isl 16
तृतीयमध्ययनम्
Isl
N6
sil
llell llell
all
ततः सादी तमाक्रष्टुं, प्रविविक्षुः सरोन्तरे । उत्तीर्य तुरगाच्छस्त्र-सन्नाहादि विहाय च ।। ६७ ।। कौपीनमात्रभृद्याव-जलोपान्तमुपाययौ । तावत्तस्यैव खड्गन, चाणक्यस्तच्छिरोऽच्छिनत् ।। ६८।। (युग्मम्) चन्द्रगुप्तमथाहूय, तस्मिन्नारोप्य वाजिनि । चाणक्यः पुरतोऽचाली-त्प्रतिभाविभवोर्जितः ।।६९।। कुमारं चेति पप्रच्छ, हे वत्स ! त्वामहं यदा । सादिनेऽवादिषं चित्ते, किमचिन्ति त्वया तदा ।। ७०।। चन्द्रः प्रोवाच हे पूज्याः !, ध्यातमेतन्मया तदा । एतदेव विदन्त्यार्याः, सुन्दरं खलु न त्वहम् ! ।। ७१।। तदाकातिसन्तुष्टश्चाणको ध्यातवानिति । वशंवदः सदाप्येष, भावी मम सदश्ववत् ।। ७२।। ध्यायन्तमिति चाणक्यं, व्रजन्तं पुरतो द्रुतम् । चन्द्रगुप्तोऽब्रवीदार्य !, क्षुधा मां बाधतेऽधिकम् ।।७३।। ततश्चन्द्रं बहिर्मुक्त्वा, भक्तार्थं चणकात्मजः । प्रति ग्रामं व्रजनेकं, भद्रं दृष्ट्वेति पृष्टवान् ।।७४ ।। ग्रामेऽत्र लभ्यते भिक्षा, सोऽभ्यधाल्लभ्यते भृशम् ! । मयाप्यत्राधुना लेभे, दधिकूरकरम्बकः ।।७५।। चाणक्योऽचिन्तयद्भक्त-कृते ग्रामे व्रजाम्यहम् । एकाकी चन्द्रगुप्तस्तु, बहिस्तिष्ठति साम्प्रतम् ।। ७६।। तदयं मयि दूरस्थे, निर्दयैर्नन्दसादिभिः । हनिष्यते चेत्तद्भावि, राज्यं मे स्वप्न एव हि ! ।। ७७।। तस्मादस्यैव भट्टस्यो-दरात्कृष्ट्वा करम्बकम् । ददे तस्मै दुर्दशा हि, तरणीया यथातथा ! ।। ७८।। ध्यात्वेति जठरं तस्य, चाणक्यो दारयत्स्वयम् । स्वार्थसिद्ध्यै परद्रोह-करान् धिग् धिग् नराधमान् ! ।।७९।।
llel
Mall
२०३
||sil
likel lel lifoll
||sil
Isil Hai
in Education International
For Personal & Private Use Only
www.jainelibrary.org