________________
16l
उत्तराध्ययन
सूत्रम् २०२
isi
चतुरङ्गीयनाम
तृतीय
मध्ययनम् III || llol
si
महाराज ! ममाऽपि त्वं, किञ्चिद्देहीति चाऽब्रवीत् । ततश्चन्द्रोऽवदद्विप्र!, गृहाण सुरभीरिमाः ।।५४।। चाणक्योऽथाऽब्रवीदेता, गावो गृह्णन् बिभेम्यहम् । बभाण चन्द्रो मा भैषी-वीरभोग्या हि भूरियम् ।। ५५।। तत: पप्रच्छ चाणक्यः, कस्यायमिति बालकान् ? । शिशोरप्यस्य विज्ञानं, प्रकृष्टमिति चिन्तयन् ।।५६।। जगुर्बाला: परिव्राजः, पुत्रोऽसौ विप्र ! वर्तते । गर्भस्थोऽप्येष यत्तस्मै, दत्तो दोहदपूरणात् ! ।।५७।। चाणक्योऽथ स्वकीयं तं, बालं ज्ञात्वेत्यभाषत । एहि वत्स ! ददे राज्यं, यस्मै दत्तोऽसि सोऽस्म्यहम् ।। ५८।। तच्छ्रुत्वा द्रुतमायातं, हत्वा तं राज्यकाक्षिणं । चाणक्यो द्राक् पलायिष्ट, सलोपत्र इव तस्करः ।।५९।। धातुवादार्जितद्रव्यैः, सेनां कृत्वाऽथ काञ्चन । रुरोध पाटलीपुत्रं, प्रतिज्ञापूरणाय सः ।। ६०।। ततो नन्देन तत्सैन्ये, स्वल्पत्वाद्विद्रुते द्रुतम् । चाणक्यश्चन्द्रगुप्तेन, समं सद्यः पलायत ! ।।६।। ततो नन्दश्चन्द्रगुप्तं, ग्रहीतुं सादिनो बहून् । आदिश्य प्राविशत्तुष्टैः, पौरैः कृप्तोत्सवे पुरे ।।६२।। तेषां नन्दाश्ववाराणां, मध्यादेकः समाययो । चन्द्रगुप्तमनुक्षिप्रं, वायुवेगेन वाजिना ।। ६३।। दूराद्वीक्ष्य तमायान्तं, चाणक्यश्चारुधीनिधिः । प्रावीविशञ्चन्द्रगुप्तं, सवेशस्थे सरोवरे ।। ६४ ।। स्वयं तु निर्णेजकवत्, प्रारेभे वस्त्रधावनम् । तत्राऽऽयातोऽथ नन्दाश्व-वारस्तमिति पृष्टवान् ।। ६५ ।। चन्द्रगुप्तो व्रजन्नत्र, दृष्टो रे ! रजक ! त्वया । सोप्यूचेऽन्तःसरो नंष्ट्वा, प्रविष्टः स हि विद्यते ।। ६६ ।।
२०२
For Personal Private Use Only