________________
उत्तराध्ययन
सूत्रम् २०१
11611 is चतुरङ्गीयनाम ल तृतीयIS मध्ययनम्
तस्यऽपूर्ती च सा बाला, लतेव तनुतां दधौ । स्त्रीणां हि दोहदापूर्ति-रव्याधिमरणं स्मृतम् ! ।। ४१।। तदा च प्रेक्ष्य चाणक्यं, तस्याः पित्रादिबन्धवः । इत्यपृच्छंश्चन्द्रपान-दोहदः पूर्यते कथम् ? ।। ४२।। चाणक्योऽथ जगादेवं, तत्सुतं दत्त चेन्मम । तदाहं दोहदं तस्यास्त्वरितं पूरयाम्यमुम् ।। ४३।। अपूर्णदोहदा गर्भा-न्विता मा म्रियतामियम् । तैर्विमृश्येति चाणक्य-वचनं प्रतिपेदिरे ।। ४४।। सच्छिद्रमथ चाणक्यो-ऽचीकरत्पटमण्डपम् । तस्योर्द्धञ्चाऽमुचच्छन्नं, नरं छिद्रपिधायकम् ।। ४५।। छिद्रस्य तस्य चाऽधस्ता-त्र्यधात्स्थालं पयोभृतम् । निशीथे कार्तिकीचन्द्र-स्तत्र प्रतिमितिं दधौ ।। ४६ ।। प्रतिबिम्बं च तचान्द्र-मन्तवत्याः प्रदर्श्य सः । पिबेत्यूचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ।। ४७।। चन्द्रपानधिया स्थाल-पय: साऽपाद्यथा यथा । पिदधे मण्डपछिद्र-मुपरिस्थस्तथा तथा ।। ४८।। एवं दोहदमापूर्य, तस्याः पृथ्व्यां परिभ्रमन् । चाणक्यो धातुवादाद्यैः, प्रारेभे द्रविणार्जनम् ।। ४९।। सम्पूर्णदोहदा साऽपि, समये सुषुवे सुतम् । तं च पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ।।५०।। ववृधे चन्द्रगुप्तोऽपि, स्वजनान् मोदयन् क्रमात् । औदार्यधैर्यगाम्भीर्यसौन्दर्यादिगुणैः समम् ।। ५१।। स बालकेः सह क्रीडां, कुर्वत्रु:शवत्सदा । ददौ ग्रामादिकं तेषां, हयीकृत्यारुरोह तान् ।।५२।। तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ । अपश्यञ्चन्द्रगुप्तं च, क्रीडन्तं भूपलीलया ।।५३।।
16 Isl
lalll
foll Isll
२०१
Wel
liol
For Personal Private Use Only