SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ in चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् २०० in तृतीय Mall मध्ययनम् |lol अथ राजसभां नन्द-महीपतिरुपागमत् । एकेन सिद्धपुत्रेण, निमित्तज्ञेन संयुतः ।। २८ ।। तत्रस्थं वीक्ष्य चाणक्यं, सिद्धपुत्रोऽब्रवीदिति । विप्रोऽसौ नन्दवंशस्य, छायामाक्रम्य तिष्ठति ।। २९।। ततश्चाणक्यमुर्वीश-दास्युवाचेति सादरम् । भगवनिदमध्यास्व, द्वितीयं सिंहविष्टरम् ।।३०।। स्थास्यत्यस्मिन्नासने म-त्कमण्डलुरिति ब्रुवन् । स तत्र कुण्डिकां न्यास्थ-त्राऽत्याक्षीदाद्यमासनम् ।।३१।। तृतीयमेवं दण्डेन, चतुर्थञ्चाक्षमालया । पञ्चमं ब्रह्मसूत्रेण, सोऽरुन्धनमनाटयन् ।।३२।। ततो दासी जगौ धाटय-महो ! अस्य द्विजन्मनः । यदेवमुच्यमानोऽपि, न मुञ्चत्याद्यमासनम् ।।३३।। तद्विप्रेणाऽपि धृष्टेन, किमनेनेति वादिनी । सा निहत्याऽङ्ग्घ्रिणा वेगा-याणक्यमुदतिष्ठिपत् ।। ३४ ।। तया दास्येति चाणक्यो-ऽधिक्षिप्तः प्रज्वलन् क्रुधा । समक्षं सर्वलोकाना-ममुं चक्रे प्रतिश्रवम् ।।३५ ।। "कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः ! ।।३६।।" प्रतिश्रुत्येति चाणक्यो, निरगानगराद्वहिः । अनेन भिक्षुणा किं स्या-दिति राज्ञाप्युपेक्षितः ! ।।३७।। पित्रा प्रोक्तं स्मरन् बिम्बा-न्तरितं राज्यमात्मनः । बिम्बभूतं नरं सोऽथ, प्राप्तुकामोऽभ्रमद्भुवि ।।३८।। मयूरपोषकग्राम, सोथागानन्दभूपतेः । परिव्राजकवेषेण, भिक्षार्थं तत्र चाऽभ्रमत् ।।३९।। तत्रासीद्ग्रामणीपुत्र्याः, शशभृत्पानदोहदः । तं च पूरयितुं कोऽपि, नाऽशकन्मतिमन्तरा ।। ४०।। Mai ||sll ||७|| leasil २०० For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy