________________
उत्तराध्ययन
सूत्रम् १९९
॥७॥
| चतुरङ्गीयनाम llsl
तृतीय
मध्ययनम् ||l ||७||
s ||61
Isl
lleel ||६||
भ्रातृजायादयोऽप्यऽस्याः, प्रतिपत्तिं न चक्रिरे । पङ्क्तिभेदञ्च नियतं, भोजनादावपि व्यधुः ! ।।१५।। ततोऽतिलज्जितोद्विग्ना, दौःस्थ्यात्प्राप्ता पराभवम् । कथञ्चिदपि वीवाह-मतिवाहयति स्म सा ।।१६।। विवाहोत्सवपूर्ती तु, सा स्वीयैरेव चीवरैः । आगात्पत्युर्गृहे शोकस्रवदश्रुजलाविला ।।१७।। चाणक्येनाऽथ तदुःख-दुःखिना दुःखकारणम् । पृष्टाऽपि सा तत्कुस्थान-व्रणवन्न हियाऽवदत् ।।१८।। ततो भा सनिर्बन्ध-मुक्ता मुक्तागणोपमम् । मुञ्चन्त्यश्रुव्रज स्माह, कथञ्चित्तं पराभवम् ।।१९।। तं निशम्याऽथ चाणक्य-श्चेतसीति व्यचिन्तयत् । नूनं जगति दारिद्यं, सोच्छ्वासं मरणं नृणाम् ! ।।२०।। परं पराभवस्थानं, विशां दारिद्ममेव हि । येन मातुर्गृहप्येवं, प्रापदेषा पराभवम् ! ।।२१।। प्रकाशयन्ति धनिना-मसत्यामपि बन्धुताम् । लज्जन्ते दुर्गतैर्लोका-स्तात्विकस्वजनैरपि ! ।। २२।। कलावान् कुलवान् दाता, यशस्वी रूपवानपि । विना श्रियं भवेन्मयो, निस्तेजाः क्षीणचन्द्रवत् ।। २३ ।। दौःस्थ्यनाशाय तत्किञ्चि-दातारं प्रार्थये स्वयम् । द्विजन्मनां हि याञ्चैव, निधानं परमं मतम् ।। २४ ।। मम दौःस्थ्यापनोदस्तु, भावी राजैव केनचित् । तापोपशान्तिः शैलस्य, न हि स्यान्मेघमन्तरा ।। २५।। ददाति नन्दभूपश्च, विप्राणां बहुलं धनम् । विमृश्येति जगाम द्राक्, चाणक्यः पाटलीपुरम् ।।२६।। सोऽथ कार्तिकराकायां, पूर्वन्यस्तासनव्रजाम् । गत्वाऽऽस्थानसभां नन्द-नृपासनमशिश्रियत् ।।२७।।
IIsl || lifoll llol
||Gl
||Gll |6l
foll
lil
llol
Mall
१९९
16ll
all
lie.ll
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org