SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ || ॥ चतुरङ्गीयनाम उत्तराध्ययन सूत्रम् १९८ तृतीय मध्ययनम् 116 M6ll Nell lll leil ॥७॥ llsil llsil अन्यदा तगृहे तस्थु-र्जानिनः केऽपि साधवः । तदा च तस्य पुत्रोऽभू-दुद्गतैर्दशनैः समम् ।।२।। जातमात्रं च तं बालं, मुनिभ्योऽनमयद्विजः । हे भदन्ताः ! सदन्तोऽसौ, जातोऽस्तीति निवेदयन् ।।३।। ततस्ते मुनयः प्रोचु-र्बालोऽयं भविता नृपः । तच्छ्रुत्वा चणको भूरि-विषण्णो ध्यातवानिदम् ।। ४ ।। मत्सुतोऽप्येष मायासी-द्राज्यारम्भैरधोगतिम् ! । ध्यात्वेति घृष्ट्वा तद्दन्तान्, स साधुभ्यस्तदप्यवक् ।।५।। मुनयोऽप्यवदन्नेव-मयं हि रदघर्षणात् । भविता भूपतिबिम्बा-न्तरितो भरितो गुणैः ।।६।। ततस्तस्याऽभिधां चक्रे, चाणक्य इति तत्पिता । सोऽथ शुक्लद्वितीयेन्दु-रिव वृद्धि दधौ क्रमात् ।।७।। कलिन्दिकाः कण्ठपीठे, स चकार स्वनामवत् । जन्मान्तरानुगामीव, श्राद्धत्वञ्चादितोऽश्रयत् ।।८।। यौवने पर्यणैषीच, कुलीनां विप्रकन्यकाम् । निर्धनोऽपि हि सन्तोषाद्, द्रव्यार्थं नोद्यम व्यधात् ! ।।९।। अन्यदा तत्प्रिया भ्रातु-विवाहेऽगागृहे पितुः । निर्धनत्वेन सामान्य-वेषा भूषणवर्जिता ! ।।१०।। महेभ्यब्राह्मणोदूढा-स्तद्भगिन्योऽपरा अपि । तत्राऽऽययुर्महामूल्य-वस्त्रभूषणभूषिताः ! ।।११।। तासां परिजन: सर्व-श्चक्रे भूयांसमादरम् । वाक्यैः पैञ्जुषपीयूषै-भूयः सम्भाषणादिकम् ! ।।१२।। चाणक्यस्याऽङ्गनां तां तु, न किञ्चित्कोऽप्यऽजल्पयत् । आदरो हि भवेत्सर्वः, श्रीणां न तु वपुष्मताम् ।।१३।। तां च भूषणताम्बूल-गन्धमाल्यादिवजिताम् । बन्धुवर्गो भगिन्यादि-रपि बाढमहीलयत् ।।१४।। ||sil Isil Ilsil Nell Mell llsl || Isil Ifoll foll |ll १९८ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy