SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १९६ ll चतुरङ्गीयनाम तृतीयमध्ययनम् भूपोऽथ तं ध्वजं वीक्ष्य, सर्वध्वजविलक्षणम् । ईदृशोऽयं ध्वजः कस्ये-त्यपृच्छत्पारिपार्श्वकान् ! ।।११।। न विद्य इति तैरुक्ते, पार्थिवस्तमजूहवत् । अभ्यर्णमागतं तं च, प्रेक्ष्योपालक्षयत्स्वयम् ।।१२।। दुर्दशासु सहायोऽसौ, ममासीदिति चिन्तयन् । गजादुत्तीर्य तं चक्री, सस्नेहं परिषस्वजे ! ।।१३।। तस्मै कोशलिकी वार्ता-मापृच्छयेति नृपोऽवदत् । याचस्व सन्मते ! सद्यो, यत्तुभ्यं रोचतेऽधुना ।।१४।। विप्रोऽजल्पत् प्रियां पृष्ट्वा, याचिष्ये त्वामहं विभो ! । विहस्याऽथ नृपः प्रोचे, तां पृष्ट्वा द्रुतमापतेः ।।१५।। द्विजस्ततो निजग्राम, गत्वाऽप्राक्षीदिति प्रियाम् । चक्री तुष्टो ददातीष्टं, तत्किमभ्यर्थये प्रिये ! ।।१६।। तत्रिशम्येति सा दध्यो, वृद्धि प्राप्तो ह्ययं द्विजः । मानयिष्यति मां नैव, सम्पदुत्कर्षगर्वितः ! ।।१७।। यदुक्तं - "प्रवर्द्धमानः पुरुष-स्त्रयाणामुपघातकः । पूर्वार्जितानां मित्राणां, दाराणां वेश्मनां तथा ।।१८।।" तदस्मै तादृशं किञ्चित्, प्रार्थ्यमर्थं ब्रवीम्यहम् । जीवामः ससुखं येन, न चोत्कर्षः प्रजायते ।।१९।। ध्यात्वेति साभ्यधाद्विप्रं, स्वामिन् ! याचस्व भोजनम् । दीनारदक्षिणायुक्तं, भरते सर्ववेश्मसु ! ।।२०।। नगरग्रामदेशाद्यै-र्बहुभिः किं परिग्रहः । कश्चाकुलो भवेन्नित्यं, तेषां सत्यापनादिना ? ।।२१।। तत्प्रपद्य ततः सद्यः, सोऽपि गत्वा नृपान्तिके । अयाचत स्वजायोक्त-मित्यूचे च प्रमोदभाक् ।। २२।। अहं हि प्राक् भवद्गहे, प्रभो ! भोक्ष्ये ततः परम् । त्वदन्तःपुरभूमीशा-ऽमात्यलोकगृहेष्वऽपि ।।२३।। Ifoll limil Gll all FEEEEE || lal ||all ||sil For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy