SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १९० is परीषहनाम llell is द्वितीयlel is मध्ययनम् lifall || WEM hell foll foll lol भयोद्धान्तस्ततः सूरिः, सैन्याध्वानं विहाय सः । नश्यन्नपि नृपस्यैव, पुरोगादेवयोगतः ।।१३९।। नृपोऽपि प्रेक्ष्य तं हस्ति-स्कन्धादुत्तीर्य चाऽनमत् । आह स्म चाऽहो ! भाग्यं मे, यूयं यदिह वीक्षिताः ! ।।१४०।। तत्कृत्वाऽनुग्रहं स्वामि-न्मयीदं मोदकादिकम् । एषणीयं प्रासुकं च, गृह्यतां गृह्यतां द्रुतम् ।। १४१।। नाऽद्य भोक्ष्येऽहमित्युग्छ-र्वदन् सूरिस्तु नाऽददे । पात्रस्थो भूषणोघो मा, दृश्यतामिति चिन्तयन् ! ।।१४२।। तं मुञ्च मुञ्चेत्यूचानं, भिया भूपस्तु नाऽमुचत् । ह्रिया न नेति जल्पन्ती, नवोढां रमणो यथा ! ।।१४३।। भूभुजा मुहुराकृष्ट-मपि सूरिः पतद्ग्रहम् । न मुमोच नवोढा स्त्री, भाकृष्टमिवांशुकम् ! ।।१४४ ।। ततः प्रसह्य तत्पाणे-स्तमाच्छिद्य पतद्ग्रहम् । तत्र यावन्नृपः क्षेप्नु-मारेभे मोदकादिकम् ।। १४५।। तावत्स तानलङ्कारा-निरीक्ष्य कुपितो भृशम् ! । तमाचार्यमुवाचैवं, भ्रुकुटीविकटाननः ।।१४६।। अरे पाप ! त्वया नूनं, पुत्रा व्यापादिता मम । नो चेत्कथममी तेषा-मलङ्कारास्तवान्तिके ।।१४७।। रे दुष्ट ! द्विष्ठ ! पापिष्ठ !, साधुवेषविडम्बक ! । यास्यसि त्वं कथं जीवन्, व्यापाद्य मम नन्दनान् ? ।।१४८।। श्रुत्वेति भूभृतो भाषां, साध्वसाकुलमानसः । अधोमुखः सोऽनूचानो-ऽनूचानो ध्यातवानिति ।।१४९।। अहो ! विमूढचित्तेना-ऽकार्यमेतत्कृतं मया । यदेतदीयपुत्राणा-माददे भूषणव्रजः ! ।।१५०।। मत्पातकं च सकलं, ज्ञातं भूस्वामिनाऽमुना । तदसौ मां कुमारेण, मारयिष्यति केनचित् ! ।।१५१।। liall all Heall llfall Jell ||ll ||6 |ll IST Jell fell १९० ||sl Isl || 1a. For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy