SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १८९ परीषहनाम द्वितीयमध्ययनम् lal livoll lei el sil Iel इत्थं चतुर्भिराख्यान-गुरोस्तेनोदितैरपि । न दुर्भावो न्यर्वतिष्टा-ऽसाध्यो रोग इवोषधैः ।।१२६ ।। ततस्तस्याऽप्यलङ्कारान्, सूरिर्जग्राह पूर्ववत् । लुब्धो जनो हि नो द्रव्यै-स्तृप्यत्यब्धिरिवाम्बुभिः ।।१२७ ।। एवं षण्णां कुमाराणा-मात्तैराभरणवजैः । प्रतिग्रहं दुर्विकल्पै-रात्मानं च बभार सः ।।१२८।। ततो द्रुतं द्रुतं सूरिः, पुरो गन्तुं प्रचक्रमे । सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ।। १२९।। देवोऽप्येवं परीक्षाभि-स्तं प्रणष्टव्रताशयम् । ज्ञात्वैकां व्यकरोत्साध्वी, तत्सम्यक्त्वं परीक्षितुम् ।।१३०।। तां च गुर्वीमलङ्कार-निकरैः परिमण्डिताम् । वीक्ष्य सूरिः ससंरम्भा-रम्भमेवमुवाच सः ।। १३१।। अञ्जिताक्षी भूरिभूषा-भूषिता तिलकाङ्किता । शासनोड्डाहकृदुष्ट-साध्वि ! त्वं कुत आगता ? ।।१३२।। सूरेस्तस्येति वचनं, श्रुत्वा रोषभराकुला । सा वतिन्यपि निःशङ्ख, प्रत्युवाचेति तं द्रुतम् ।। १३३।। रे सूरे ! सर्षपाभानि, परच्छिद्राणि पश्यसि ? । आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ? ।।१३४।। किञ्चैवं शिक्षयन्नन्यं, निर्दोषः खलु शोभते । स्वयं सदोषस्तु परं, न शिक्षयितुमर्हति ! ।।१३५ ।। यदि च त्वं मन्यसे स्वं, श्रमणं ब्रह्मचारिणम् । समलेष्टुसुवर्णं स-क्रियमुग्रविहारिणम् ।।१३६ ।। तदभ्येहि ममाभ्यर्ण-मुत्कर्णः किं प्रणश्यसि ? । विलोकयामि ज्येष्ठार्य !, यथाहं ते प्रतिग्रहम् ।। १३७ ।। तयेत्युड्डाहित: साध्व्या, तूष्णीकः स व्रजन् पुरः । ददर्श सैन्यमागच्छत्, कृतं तेनैव नाकिना ।।१३८।। Isl Isl Isl lol i slil Isll islil | १८९ का Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy