SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १८८ isi परीषहनाम io द्वितीय मध्ययनम् खानितं हि त्वयैवेदं, सरो वृक्षाश्च रोपिताः । प्रवर्तिता मखाश्चाऽथ, किं 'बुबू' कुरुषे पशो ! ।। ११३।। इति साधुवचः श्रुत्वा, स छागो मौनमाश्रयत् । स्वकर्मण्युदिते किं हि, पूत्कारैरिति चिन्तयन् ।। ११४ ।। तूष्णीक: साधुवाचाऽय-मजोऽभूदित्यवेत्य ते । अथाऽपृच्छन् द्विजाः साधु-मित्याश्चर्यभराकुलाः ।। ११५ ।। किमेष मेषो भगव-त्राकर्ण्य भवतां वचः । तूष्णीकत्वं दधौ नाग, इव मन्त्रवशीकृत: ? ।।११६।। मुनिर्जगी भवत्तातो, मृत्वाऽसौ छगलोऽभवत् । दृष्ट्वा चैतत्तटाकादि, जातिस्मरणमासदत् ।। ११७ ।। ततो दुःखाबुबुध्वान-मुझेः कुर्वन्मयोदितम् । स्वकर्मणां दोषममुं, ज्ञात्वा मौनं दधौ द्रुतम् ।। ११८ ।। ततस्तदङ्गजाः प्रोचुः, कः प्रत्यय इह प्रभो ! । विना प्रत्ययमुक्तं हि, परोक्षं श्रद्दधीत कः ? ।। ११९ ।। साधुरूचे समक्षं वः, प्राग्भवे निहितं स्वयम् । निधिं चेद्दर्शयत्येष, तदा ह्येतद्यथातथम् ।। १२०।। तदाकर्ण्य निधिस्थानं, दर्शयेत्युदितः सुतैः । छागो गत्वा निधिस्थाने, पादानेणाऽखनद्धवम् ।।१२१।। ततस्तत्तनयैर्जात-प्रत्ययैर्यतिसन्निधौ । स छागो मुमुचे जैन-धर्मश्च प्रत्यपद्यत ।।१२२ ।। धर्मं श्रुत्वा मुनेस्तस्मा-न्मेषोऽपि प्रतिपद्य सः । विहितानशनः सद्यो, देवभूयमविन्दत ।।१२३ ।। प्रेत्य मे शरणं भावी-त्याशया स द्विजो यथा । तटाकादि व्यधात्तञ्च, तस्याशरणतामगात् ।।१२४।। एवं मयाऽपि भीतेन, भवन्तः शरणीकृताः । चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ।। १२५ ।।" JainEducationa l For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy