________________
उत्तराध्ययन
सूत्रम् १८७
परीषहनाम द्वितीयमध्ययनम्
150
Mea
||Gll
llel 116
Mer
Isll ||6ll lal
उद्गतेऽपि रवी विश्वं, विश्वं स्पृशति चाऽऽतपे । प्रबुद्धेऽप्यऽखिले लोके, हले ! जागत्तिं नो सुखी ।।१०।। तत्सवित्रीवचः पूर्व-प्रबुद्धा सा तदङ्गजा । श्रुत्वा तदीयभावं चा-ऽवगम्येत्युत्तरं ददौ ।।१०१।। मातस्त्वयैव प्रोक्तं मे, यद्यक्षं बहु मानयेः । यक्षेण चाहतस्तात-स्तदन्यं तातमेषय ! ।।१०२।। इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यब्रवीत्पुनः । नव मासान् स्वीयकुक्षौ, कष्टेनाऽधारि या मया ।। १०३ ।। विण्मूत्रे च चिरं यस्या, मर्दिते साऽपि नन्दना । मत्कान्तमहरत्तन्मे, जातं शरणतो भयम् ।।१०४।।" पूर्ववद्भावनापूर्व-मित्युक्तेपि कथानके । तेनाऽमुक्तः शिशुस्तुर्यमाख्यानमिदमुक्तवान् ।। १०५ ।। "तथा हि काप्यभूद्ग्रामे, विप्रः कोऽपि महाधनः । स च धर्मधिया मूढः, सरोवरमचीखनत् ।।१०६ ।। तस्य पाल्यां देवकुल-मारामं च विधाप्य सः । प्रवर्त्य छागयज्ञं च, मुहस्तत्र चकार सः ।। १०७।। अयं हि धर्मस्राणं मे, परलोके भविष्यति । ध्यायन्निति स यज्ञेषु, छगलानवधीद्वहून् ।।१०८।। भूदेवः सोऽन्यदा मृत्वा, छागेष्वेवोदपद्यत । सोऽपि छाग: क्रमाद्वृद्धिं, प्राप्तोऽभूत्पीनभूधनः ।। १०९।। यज्ञे हन्तुं नीयमानः, स्वपुत्ररेव सोऽन्यदा । स्वोपज्ञं तत्तटाकादि, दृष्ट्वा स्वां जातिमस्मरत् ।। ११०।। मयैव कारितमिदं, ममैवाभूद्विपत्तये । निन्दन्नेवं स्वकृत्यं स, 'बुबु' शब्दं व्यधान्मुहुः ।। १११।। तथाभूतं च तं वीक्ष्य, ज्ञानी कोऽपि महामुनिः । तत्पूर्वभववृत्तान्तं, विज्ञायैवमवोचत ।। ११२।।
||Gll
sill
||sil
IST
lioll
|| lioil
licl lifoll llel llel lel
l
१८७
For Personal Prese Only