________________
IIsl
उत्तराध्ययन-
सूत्रम् १८६
1 Ill lel lel 11 Ill Isll
II परीषहनाम
द्वितीय
मध्ययनम् lall llall
II
lion
Isll
||sil
lifoll llell Isil llll
विधायाकार्यमप्येत-त्तदेनं जीवयाम्यहम् । निजो भर्ता हि पत्नीभि-जीवनीयो यथातथा ।।८७।। सा विचिन्त्येति तं प्रोचे, मा कार्षीरधृति प्रिय ! । अहं केनाऽप्युपायेन, करिष्यामि तवेहितम् ।। ८८।। तमित्याश्वास्य सा पुत्री-मिति प्रोवाच दम्भिनी । पूर्वं हि नः सुतं यक्षो, भुङ्क्ते पश्चाद्विवाह्यते ।। ८९।। कृष्णभूतेष्टानिशायां, तत्त्वं यक्षालयं व्रजेः । त्वां भोक्तुमुद्यतं तत्रा-ऽऽगतं यक्षं च मानये: ।। ९०।। हे पुत्रि ! तत्रोद्योतं च, मा कार्षीर्यक्षमीक्षितुम् । उद्योते हि कृते यक्षः, सरोषमुपयास्यति ।। ९१।। तच्छ्रुत्वा मातृवित्रम्भा, स्वीचक्रे साऽपि तद्वचः । विस्रब्धो हि जनोऽकार्य-मपि सद्यः प्रपद्यते ! ।।१२।। रात्रौ च मातृप्रोक्तायां, सा यक्षेक्षणकौतुकान् । शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ ।। ९३।। तन्मात्रा प्रहितो भट्टो-ऽप्याऽऽगात्तद्यक्षमन्दिरम् । तां चोपभुज्य निःशङ्क, रतश्रान्तोऽस्वपीत्सुखम् ।। ९४ ।। शरावसम्पुटाद्दीप-माविष्कृत्याऽथ कौतुकात् । पश्यन्ती तत्सुता तत्र, तातं दृष्ट्वेत्यचिन्तयत् ।। ९५ ।। अहो मया समं माया, मात्राऽपि महती कृता । भर्त्ता तदयमेवास्तु, मम किं लजयाऽधुना ? ।। ९६ ।। किञ्च स्वतातमप्येन-मपशङ्कं भजाम्यथ । नर्त्तनोद्युक्तनतक्या, वदनावरणेन किम् ? ।। ९७।। सा विमृश्येति पित्राऽपि, समं रेमे यथारुचि । रतश्रान्तौ च तौ सुप्तौ, प्राबुध्येतां प्रगेऽपि न ।। ९८।। माता तस्यास्तत: कान्त-वियोगोदनदुःखतः । अलब्धनिद्रा यामिन्यां, प्रातस्तावित्यभाषत ।। ९९।।
lall lleell
foll
lesill
IGll
Jell
Isil llell || Ill
llol
१८६
in Economia
For Personal Private Use Only