________________
उत्तराध्ययन
सूत्रम्
परीषहनाम द्वितीयमध्ययनम्
१८४
||
भूयोपि पुरतो बालं, प्राग्वदाभरणै तम् । स वनस्पतिकायाख्यं, पञ्चमं सूरिक्षित ।।६१।। तस्यापि भूषणगणं, ग्रहीतुं सोद्यमे गुरौ । सोऽपीत्याख्यानमाचख्यौ, स्वाभिख्याख्यानपूर्वकम् ।।६२।। "द्रुमे पुष्पफलाकीणे, क्वापि केऽप्यऽवसन् खगाः । वृक्षो ह्ययं नः शरण-मिति विश्रब्धचेतसः ।।३।। तेषां च वसतां तत्र, निराबाधमथान्यदा । अपत्यानि बहून्यन्त-नीडं क्रीडन्ति जज्ञिरे ।। ६४।। इतश्च तस्य वृक्षस्य, पार्धात्काऽप्युद्गता लता । तं तरु परिवेष्ट्यो-रारुरोह द्रुमोपरि ।। ६५।। तया च लतयाऽन्येधु-विलग्य भुजगो महान् । आरुह्य तं द्रुमं तानि, खगापत्यान्यभक्षयत् ।।६६।। ततस्ते विहगाः स्वीया-पत्यविध्वंसदुःखिताः । कुर्वन्तस्तुमुलं प्रो-रित्थमाहुर्मुहुर्मिथः ।। ६७।। अद्य यावत्सुखं वृक्षे, स्थितमत्रानुपद्रवे । अस्मादेव लतायुक्ता-दद्याभूच्छरणाद्भयम् ।। ६८।।" इत्युदीर्य कथां तस्या, भावं प्राग्वत् प्रकाश्य च । तस्थुषस्तस्य शावस्या-ऽप्याददे भूषणानि सः ।। ६९।। ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् । वीक्ष्य तस्याप्यलङ्कारान्, सोऽभूदाच्छेत्तुमुत्सुकः ।। ७०।। निजामाख्या समाख्याय, सोऽप्याऽऽख्यानचतुष्टयम् । अवादीद्द्वीन्द्रियादीनां, चतुर्णां तत्र सम्भवात् ।। ७१।। "तथा हि नगरे क्वापि, परीते परितोऽरिभिः । भीता बहिस्था मातङ्गाः, पुरान्तः प्राविशन् द्रुतम् ।। ७२।। तांश्च मध्यस्थितेर्लोक-रनादिक्षयभीरुभिः । निष्काश्यमानानगरा-द्विद्विषोऽपीडयन् भृशम् ।। ७३।।
llel
१८४
||oll
in Eco
For Personal & Private Use Only