________________
IN
उत्तराध्ययन
सूत्रम् १८३
all Isll
sil
परीषहनाम
द्वितीयव मध्ययनम्
lisl
leel
IIsl
100
ततोऽप्यग्रे व्रजस्तेज-स्कायिकाख्यं तृतीयकम् । वीक्ष्यार्भकमभूत्सूरि-स्तद्भूषाग्रहणोद्यतः ।। ४८।। ततः सोऽपि शिशुः प्राग्व-त्प्रादुष्कृत्य निजाभिधाम् । इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे ।। ४९।। "क्वाप्याश्रमे तापसोऽभू-त्सर्वदा वह्निपूजकः । तस्योटजेऽनले नैवा-ऽन्यदा दग्धे स इत्यवक् ।। ५०।। यमहं मधुसर्पिा , तर्पयामि दिवानिशम् । दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ! ।।५१।। यद्वारण्यं गतः कश्चि-द्वहिं व्याघ्रभिया निशि । अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ।। ५२।। मया हि व्याघ्रभीतेन, पावकः शरणीकृतः । दग्धं तेन च गात्रं मे, जातं शरणतो भयम् ! ।।५३।।" इत्युक्त्वाख्यानकं तस्यो-पनयं च प्रकाश्य सः । तस्थौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः ।। ५४ ।। ततोऽप्यऽग्रेर्भकं वायु-कायाख्यं वीक्ष्य पूर्ववत् । लातुं तस्याप्यलङ्कारान्, सूरिरुद्यमवानऽभूत् ।। ५५ ।। सोऽपि शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् । आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयन्त्रिजम् ।।५६।। "एकः कोऽपि युवा भूरि-बलोऽभूत्पीनभूघन: । वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् ।।५७।। लङ्घनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् । याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् ? ।।५८।। सोऽवादीद्यो मरुज्येष्ठा-ऽऽषाढयो: सौख्यदो भवेत् । स एव बाधतेऽङ्गं मे, जातं हि शरणाद्भयम् ! ।। ५९।।" आख्यानमित्युदित्वा त-द्भावयित्वा च पूर्ववत् । शिशोः स्थितस्य तस्यापि, भूषणान्यग्रहीद्गुरुः ।।६०।।
all ||ll ||७| ||slil Isl
Mel Isl Mel
Isl Isill Illl
llell Jeel
Isl llol lislil
led
ler
Jel
१८३
lish el
Isll islil lell Isll
For Personal Price
Only