________________
Isll
उत्तराध्ययन
सूत्रम् १८२
reall
Isl
॥७॥ परीषहनाम
द्वितीयमध्ययनम्
Del
||७||
यत्प्रसादाद्वलिं भिक्षा, ददे ज्ञातींश्च पोषये । साऽप्याऽऽक्रामति भूमिर्मा, तज्जातं शरणाद्भयम् ! ।।३५ ।। यथा ह्याजीविकामुख्य-सौख्यार्थी पृथिवीं श्रितः । वराकः कुम्भकारोऽयं, तयैवोपहतो द्रुतम् ! ।।३६ ।। भगवत्रहमप्येवं, भीतस्त्वां शरणं श्रितः । त्वं च मुष्णासि मां तद्धी-र्ममापि शरणादभूत् ! ।।३७।। तदाकातिदक्षोऽसि, रे ! बालेति वदन् गुरुः । तद्भूषणानि जग्राह, निजग्राह च तां शिशुम् ! ।।३८।। तानशेषानलङ्कारा-नक्षिपत्स्वप्रतिग्रहे । व्रताद्धृष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् ! ।।३९।। ततः पुरो व्रजन् काञ्चि-दतिक्रान्तो वनीं गुरुः । बालकं प्राग्वदद्राक्षी-दपकायाख्यं द्वितीयकम् ।। ४०।। तस्मिंस्तस्याऽप्यऽलङ्कारां-स्तथैवाऽऽदातुमुद्यते । सोऽप्याऽऽख्याय निजामाख्या-माख्यानं ख्यातवानिति ।। ४१।। "एकस्तालाचरश्चारु-कथाकथनकोविदः । पाटलाह्वोऽभवद्भूरि-सुभाषितरसहदः ।। ४२।। सोऽन्यदा प्रोत्तरन् गङ्गा, नीरपूरैः प्रवाहितः । तीरस्थैर्ददृशे लोकै-रित्यूचे च सविस्मयः ।। ४३।। बहुश्रुतं चित्रकथं, गङ्गा वहति पाटलम् । वाह्यमानाऽस्तु भद्रं, ते ब्रूहि किञ्चित्सुभाषितम् ।। ४४ ।। समाकोभयाकर्णि-सकर्णस्तजनोदितम् । श्लोकमेकमनश्लीलं, पाटलोऽप्येवमब्रवीत् ।। ४५।। येन रोहन्ति बीजानि, येन जीवन्ति कर्षकाः । तस्य मध्ये विपद्येत, जातं मे शरणाद्भयम् ! ।। ४६।।" कथां प्रोच्येति तद्धावं, चाविष्कृत्य स्थिते शिशौ । कृपां हित्वाऽऽददे सूरि-स्तस्याप्याभरणव्रजम् ।। ४७।।
Weir
||७||
Isr
Man in Economi
For Personal Private Use Only