SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १७९ अभू जिणा अस्थि जिणा, अदुवा वि भविस्सई । मुसं ते एवमाहंसु, इइ भिक्खू न चिंतए ।। ४५।। परीषहनाम व्याख्या - अभूवन्नासन् जिना: केवलिनः, 'अथित्ति' निपात: ततश्च अस्ति विद्यन्ते जिना महाविदेहेषु, अथवा भविष्यन्ति जिना इत्यपि । द्वितीय मध्ययनम् Mel मृषा अलीकं, ते जिनास्तत्त्ववादिनः, एवमनन्तरोक्तप्रकारेण आहुः कथयन्ति, इति भिक्षुर्न चिन्तयेत्, अनुमानप्रमाणादिसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ।। ४५।। निदर्शनं चात्र, तथाहि - वत्साभूमौ भूरिशिष्य-परिवारा बहुश्रुताः । आर्याषाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः ।।१।। यो यस्तेषां गणे भक्तं, प्रत्याख्याय व्यपद्यत । तं तं निर्याम्य निर्ग्रन्थ-मित्थं ते सूरयोऽवदन् ।।२।। देवभावङ्गतेनाऽऽशु, देयं मे दर्शनं त्वया । इत्युक्तेऽपि बहूनां तै- गात्कोऽपि दिवं गतः ।।३।। ||७|| अथाऽन्यदा स्वशिष्यं ते, निर्याम्यातीव वल्लभम् । एवमूचुः सनिर्बन्धं, गुरवो गद्गदाक्षरम् ।।४।। स्वर्ग गतेन भवता, वत्स ! वत्सलचेतसा । अवश्यं दर्शनं देयं, त्वामिति प्रार्थये भृशम् ।।५।। मया हि बहुसाधूना-मेवमुक्तमभूत्परम् । नाऽऽगात्कोऽपि त्वं तु वत्सा-ऽऽगच्छेः स्नेहममुं स्मरन् ।।६।। तत्प्रपद्य विपद्याशु, देवीभूतोऽपि स द्रुतम् । नाययौ प्रथमोत्पन्न-सुरकार्यविलम्बितः ।।७।। तस्मिन्ननागते सद्यो, विपर्यस्तमना गुरुः । एवं व्यचिन्तयन्नूनं, परलोको न विद्यते ! ।।८।। ||all ||6| १७९ llol Jell llell all 16 oll IMG liall loll llall IIsll in Education For Personal Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy