________________
परीषहनाम
उत्तराध्ययन
सूत्रम् १७६
llroll iii
द्वितीयमध्ययनम्
iislil Isil
ततोऽसौ द्रुतमेवान्य-दपि श्रुतमधीतवान् । क्रमाञ्च केवलज्ञानं, प्राप्य निर्वृत्तिमासदत् ! ।।३४।। इति साधुवरो विसोढ-वानयमज्ञानपरीषहं यथा । अनगारपुरन्दरैः प-रैरपि सह्यः स तथा क्षमापरैः ।। ३५।। इत्यज्ञानपरीषहसहनेऽशकटापितृमुनिकथा । ज्ञानसद्धावे तु श्रीस्थूलभद्रोदाहरणं, तथाहि - चतुर्दशानां पूर्वाणां, पारदृश्वा महामुनिः । कदाचित्स्थूलभद्रर्षिः, श्रावस्त्यां समवासरत् ।।१।। तत्र चाभूत्प्रभोस्तस्य, प्राग्वयस्योऽतिवत्सलः । धनदेवाभिधस्तस्य, प्रिया चाऽऽसीद्धनेश्वरी ।।२।। तस्मिन्नन्तुमनायाते, स्थूलभद्रगुरुः स्वयम् । जगाम सुहृदो धाम, तं चाऽपश्यद्धनेश्वरी ।।३।। ततः सा द्रुतमुत्थाय, तं प्रणम्य च सादरम् । ददावासनमत्युचं, तत्र चोपाविशत्प्रभुः ।। ४ ।। धनदेवः कुत्र यात: ?, इत्यप्राक्षी तत्प्रियाम् । सुदीर्घान्साऽपि निःश्वासा-न्मुञ्चन्तीत्यवदत्तदा ।।५।। स्वामिन्मम प्रियः सर्वं, व्ययतेस्म बहिर्धनम् । धनहीनश्च लेभेऽसौ, सर्वत्राप्यति लाघवम् ! ।।६।। ततः सोऽन्वेषयामास, निधीन् पित्रादिसञ्चितान् । विपर्ययादवस्थाया, न हि तानप्यविन्दत ।।७।। मम कान्तोऽथ वाणिज्य-हेतोर्देशान्तरे ययौ । लक्ष्मीर्वसति वाणिज्ये, लोकोक्तिमिति भावयन् ।।८।। तच्छ्रुत्वा तस्य गेहं च, वीक्ष्यावस्थान्तरं गतम् । श्रुतोपयोगमकरोत्, स्थूलभद्रगुरुर्गुणी ।।९।। स्तम्भस्याधः स्थितं दृष्ट्वा, महान्तं सेवधिं ततः । तस्य प्रियवयस्यस्यो-पकारं कर्तुमुद्यतः ।।१०।।
s
||
|| ||Gh lol
lifall
१७६
Join Education inte
For Personal & Private Use Only
15.janesbrary.org