________________
उत्तराध्ययन
सूत्रम्
१७४
||६||
॥६॥
11611
Jain Education Intelle al
“मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्चिन्तो बहुभो' जनोऽत्रप'मना नक्तं दिवा शायकः । कार्याकार्यविचारणान्धबधिरो मानापमाने 'समः, प्रायेणामयवजिं' तो दृढव' पुर्मूर्खः सुखं जीवति ! ।।९।। " (युग्मम् ) दुर्ध्यानेनामुना ज्ञाना-वरणीयमुपार्ज्य सः । विपन्नस्तदनालोच्य, सुरोऽभूद्व्रतपालनात् ।। १० ।। ततश्युतश्च भरत-क्षेत्रेऽत्रैव स निर्जरः । आभीरपल्ल्यामाभीर-स्वामिनस्तनयोऽभवत् ।। ११ ।। सक्रमाद्यौवनं प्राप्तो रूपलावण्यशालिनीम् । आभीरतनयामेकां, पितृभ्यामुदवाह्यत ।। १२ ।। तस्य सार्धं तया सौख्यं भुञ्जानस्य सुताऽजनि । भद्राभिधा स्वीयरूप - तृणीकृतसुराङ्गना ! ।। १३ ।। सा कन्यका क्रमान्नव्य-तारुण्येन विभूषिता । जज्ञे समग्रतरुण चेतोहरिणवागुराः ! ।। १४ ।। न वेषो नाप्युपस्कार - स्तादृशोऽभूत्तथापि सा । स्वरूपेणैव सर्वेषा माचकर्ष दृशो विशाम् ।। १५ ।। तस्या: पिताऽन्यदा सर्पि-विक्रेतुं तनयान्वितः । घृतस्य शकटं भृत्वा, चचाल नगरं प्रति ।। १६ ।। अनांसि सर्पिः सम्पूर्णा - न्यादायान्येऽपि भूरयः । गोदुहस्तरुणास्तेन, समं चेलुर्मदोत्कटाः ।। १७ ।। तस्याभीरस्य शकटं, भद्रा स्वयमखेटयत् । शकटानां खेटने सा, ह्यतीवनिपुणाऽभवत् ।। १८ ।। ततोऽन्ये गोदुहस्त्यक्त-मार्गास्तस्या दिदृक्षया । उत्पथे प्रेरयन् क्षिप्र-मनांसि स्वमनांसि च ।। १९ ।। स्मेरतद्वदनाम्भोज-भ्रमरीकृतदृष्टयः । अखेटयन् स्वशकटां स्तदीयशकटान्तिके ।। २० ।।
For Personal & Private Use Only
OTTOOOOT
చాలా చాలా చాలా చాలా వాచా చా చా చా చా చా చా చాలె
परीषहनाम द्वितीयमध्ययनम्
१७४
Www.jainelibrary.org