________________
उत्तराध्ययन
सूत्रम्
all
परीषहनाम द्वितीयमध्ययनम्
१७१
युष्माकं विश्वपूज्यानां, यदज्ञानवशान्मया । आशातना कृता तस्या, मिथ्यादुष्कृतमस्तु मे ! ।। ४०।। वारंवारमुदीयैव-मित्यप्राक्षीञ्च सागरः । श्रुतं व्याख्यामि कीदृक्ष-महं ब्रूत पितामहाः ! ।। ४१।। सूरीन्द्राः प्रोचिरे वत्स !, भव्यं व्याख्यासि यद्यपि । तथापि गर्वं मा कार्षीः, सर्वज्ञो ह्यस्ति कोऽधुना ? ।। ४२।। इत्युक्त्वा कालकाचार्याः, पल्लकं वालुकाभृतं । नद्या आनाययं-स्तस्य प्रतिबोधाय धीधनाः ।। ४३।। स्थाने क्वाऽप्यऽखिलां क्षिात्वा, रेणुमुद्धृत्य तां पुनः । द्वितीयस्थानके न्यास्थं-स्ततोऽपि च तृतीयके ।। ४४।। स्थानेषु बहुषु क्षेप, क्षेपमेवं समुद्धृताः । वालुका जज्ञिरे स्तोक-तरा भूम्यादिसङ्गतः ।। ४५।। प्रदर्श्य रेणुदृष्टान्त-मेवं ते सागरं जगुः । वत्स ! नद्यां यथा सन्ति, भूयस्यो वालुकाः स्वतः ।। ४६।। विज्ञानमेवं सम्पूर्ण-मनन्तमविनश्वरम् । अभूत्स्वतो जिनेन्द्रेषु, लोकालोकप्रकाशकम् ।। ४७।। पल्लकेन यथोपात्ताः, सरितः स्तोकवालुकाः । तथा गणधरैः स्तोकं, जिनेन्द्रादाददे श्रुतम् ।। ४८।। स्थाने स्थाने च निक्षिप्यो-त्क्षिप्ता: क्षित्यादिसङ्गतेः । क्षीयमाणा यथाऽभूवन, स्तोका: पल्लकवालुकाः ।। ४९।। तथा श्रुतं गणभृता-मप्यागतमनुक्रमात् । कालादिदोषतः शिष्ये-ष्वल्पाल्पतरबुद्धिषु ।।५०।। विस्मृत्यादेः क्षीयमाण-मल्पमेवाऽथ वर्तते । विवेकिना विमृश्येति, न कार्यो धीमदः क्वचित् ।। ५१।। (युग्मम्) एवमेवाईमृत्पिण्ड-दृष्टान्तमपि दर्शयन् । उजगार गुरुः प्रज्ञा-मदं मा कुरु सागर ! ।।५२।। यत: -
Isil iroll lioll IIol
Illl liell Hell
wall
१७१
lel
||sill lroll
SI ॥
Isl
lali Jain Education international
For Personal Price Use Only