SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १६९ il परीषहनाम lion द्वितीय61 मध्ययनम् विनेयान् पाठयन् सोऽथ, सूरीन्द्रानिति पृष्टवान् । ज्ञातार्थोऽयं श्रुतस्कन्धो, वृद्ध ! ते विद्यते न वा ? ।।१४।। ज्ञातार्थ इति तैरुक्ते, प्रज्ञाददुवाच सः । मया व्याख्यायमानं त्वं, श्रुतस्कन्धममुं शृणु ।।१५।। इत्युक्त्वा स विशेषात्तं, व्याख्यातुमुपचक्रमे । प्रज्ञावन्तमसौ वृद्धो, मां जानात्विति चिन्तयन् ! ।।१६।। इतश्च कालकार्याणां, शिष्यास्ते प्रातरुत्थिताः । निजं गुरुमपश्यन्तो जज्ञिरे भृशमाकुलाः ।।१७।। पप्रच्छुरिति सम्भ्रान्त-स्वान्ताः शय्यातरं च ते । अस्मान् विमुच्य गुरवः, व गता इति शंस नः ।।१८।। सकोप इव सोप्येवं, स्माह तेषां हितेच्छया । अहो ! प्रमादिनो यूयं, विनयादिगुणोज्झिताः ! ।।१९।। दीक्षिताः शिक्षिता नाना-ऽऽहाराद्यैः पोषिताश्च यः । गुरूंस्तानपि नो यूयं, कृतघ्ना वरिवस्यथ ! ।।२०।। प्रवर्त्तध्वं सदाचारे, नुन्ना अपि न सूरिभिः । तत्का युष्मादृशैः शिष्य-रर्थसिद्धिर्भवेद्गुरोः ? ।। २१।। किञ्च यूयं विनेया अ-प्यात्मीयं गुरुमप्यहो ! । गतं क्वापि न चेद्वित्थ, जानामि तदहं कुतः ? ।। २२।। उक्ताः शय्यातरेणेति, लज्जितास्ते पुनर्जगुः । अस्माभिर्यादृशं चक्रे, फलमासादि तादृशम् ।। २३।। गुरोवियुक्ता हि वयं, निराधारा गतहियः । शोभा नाश्रुमहे मौले-भ्रष्टा इव शिरोरुहाः ।।२४।। न च तुभ्यमनुक्त्वा ते, व्रजेयुः क्वाऽपि सूरयः ! । दुर्विनीता न च प्राग्व-भविष्यामः पुनर्वयम् ।।२५।। तत्प्रसद्य त्वमस्माकं, ब्रूहि तत्पावितां दिशम् । तानासाद्य यथात्मानं, सनाथं कुर्महे वयम् ! ।। २६ ।। ||sil Ill lol ||७|| For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy