SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ISI उत्तराध्ययन- 6l सूत्रम् १६८ all परीषहनाम द्वितीयमध्ययनम् Me Isll MMIT ||sl usl उज्जयिन्यां पुरि स्वर्ग-जयिन्यां निजसम्पदा । अभवन् कालकाचार्याः, सदोद्यतविहारिणः ।।१।। बहुश्रुतानां निर्ग्रन्थ-धर्माम्भोजविवस्वताम् । तेषां शिष्यास्तु पार्श्वस्थाः, सर्वे पार्श्वस्थतां दधुः ! ।।२।। साध्वाचारेऽप्यनुद्योगाः, सूत्रार्थग्रहणालसाः । शिक्षिता मृदुवाणीभि-रपि तेऽन्तर्दधुः क्रुधम् ।।३।। तथापि शिक्षयामासु-स्तानाचार्याः सुशिक्षया । शुनो लालवत्ते तु, तत्यजुर्वक्रतां न हि ! ।।४।। ततस्ते सूरयः खित्रा-श्चेतस्येवमचिन्तयन् । स्मारणादिभिरेतेषां, स्वाध्यायो मेऽवसीदति ।।५।। गुणश्च कश्चिदप्येषां, मद्वाक्यैर्नव जायते । कर्मबन्धस्तु मे नित्यं, भवत्येभिरनाश्रवैः ।।६।। विहाय तदमून कापि, गच्छामीति विचिन्त्य ते । शय्यातरश्रावकाय, परमार्थ न्यवेदयन ।।७।। ऊचुश्चैवं मयि गते, चेत्स्युः सानुशया अमी । तदा मदाश्रितामाशां, भृशं सन्तय॑ दर्शयेः ! ।।८।। एवमुक्त्वा च मुक्त्वा च, सुप्तांस्तानखिलानपि । निशावसाने सूरीन्द्रा, नगर्या निर्ययुस्ततः ।।९।। स्वकीयशिष्यशिष्यस्य, बहुशिष्यस्य धीमतः । पार्श्वे सागरसूरेस्ते, स्वर्णभूमौ स्वयं ययुः ।।१०।। अदृष्टपूर्वान् तानोपा-लक्षयत्सागरस्ततः । नाऽभ्युत्तस्थौ न चानंसी-दज्ञानं हि रिपूयते ! ।।११।। नाऽकुप्यन् सूरयो ज्ञाना-त्ते तेनाऽसत्कृता अपि । तस्थुः किन्तु तदभ्यर्णे, तानपृच्छञ्च सागरः ।।१२।। ब्रूहि वृद्धमुने ! कस्मात, स्थानादत्र त्वमागमः ? । अवन्त्या इति गाम्भीर्या-म्भोधयः सरयोऽभ्यधः ! ।।१३।। 161 ell || Isi Isl all llll १६८ lisil lisil Rel JainEducation international For Personal P U Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy