________________
उत्तराध्ययन
सूत्रम्
१६६
ततः क्रुद्धो नृपो बद्ध्वा र्पयत्तस्मै पुरोहितम् । यत्तुभ्यं रोचते श्रेष्ठि-स्तद्विदध्या इति ब्रुवन् ।। १९ ।। तं साध्ववज्ञावृत्तान्तं, स्मरयित्वा पुरोधसः । श्रेष्ठीन्द्रकीले तत्यादं, छेत्तुकामो न्यधात्ततः ।। २० ।। पुरोधाः कान्दिशीकोऽथा ऽब्रवीदेवं सगद्द्रदम् । तं साध्ववज्ञामन्तुं मे, सहस्व त्वं महामते ! ।। २१ । । नैवं मुनिजनावज्ञां करिष्येहमतः परम् । तत्कृपामयशील ! त्वं, कृपां कृत्वा विमुञ्च माम् ।। २२ ।। तेनेत्युदीरितः श्रेष्ठी, कृपानिष्ठो मुमोच तम् । जैना हि द्रुतमेव स्युः, क्रुद्धाः अप्यार्द्रमानसाः ! ।। २३ ।। अथ पिष्टमयीं कृत्वा, मूर्ति तस्य पुरोधसः । श्रेष्ठी छित्त्वा च तत्पादं, स्वां प्रतिज्ञामपूरयत् ।। २४ ।।
यथेति सत्कारपरीषहंस, श्रेष्ठी न सेहे न तथा विधेयम् । किन्त्वेष सर्वेर्व्रतिभिः पुरोधो ऽवज्ञातवाचंयमवद्विषह्यः ।। २५ ।।
इति सत्कारपुरस्कारपरीषहे साधु श्राद्धकथा । । १९ ।।
इहात्र पूर्वञ्च श्रावकस्य यत् परीषहाभिधानं तदादिमनयचतुष्कमतेनेति भावनीयम् उक्तञ्च - "तिरहंपि णेगमणओ, परीसहो जाव उज्जुसुत्ताओत्ति" अत्र 'तिहंति' त्रयाणां सर्वविरतदेशविरताऽविरतानामिति
कस्यचिज्ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे, तदपगमाञ्च प्रज्ञोत्कर्षे, वैक्लव्योत्सेकौ स्यातामिति प्रज्ञापरीषहमाह -
Jain Education International
For Personal & Private Use Only
। साम्प्रतं पूर्वोक्ताशेषपरीषहान् जयतोऽपि
||७||
| परीषहनाम द्वितीय
||६|| मध्ययनम्
'లె చావా వా వా వాల్
१६६
www.jninelibrary.org