________________
उत्तराध्ययन
सूत्रम्
परीषहनाम द्वितीयमध्ययनम्
IST
१६५
ell
||oll
lal
foll
lifell
|| ||ll
ध्यात्वेति तस्य छिद्राणि, मार्गयन्नप्यनाप्नुवन् । सोऽथ श्रेष्ठी पुरः सूरेः, स्वां प्रतिज्ञामभाषत ।।६।। गुरुर्जगाद सत्कार-न्यक्कारो हि महर्षिभिः । हर्षखेदावकुर्वद्भिः, सह्यावेव महामते ! ।।७।। प्रतिज्ञा तदियं श्रेष्ठिन् !, किमर्थं निर्मिता त्वया ? । तदाकर्ण्य जगी श्रेष्ठी, तथ्यमेतन्मुनिप्रभो ! ।।८।। किन्तु तेन तदावज्ञा, यत्कृता भूयसी मुनेः । उत्पन्नभूरिदुःखेन, तत्सन्धासी मया कृता ।।९।। किञ्च चेत्साध्ववज्ञायाः, फलमस्य न दर्श्यते । तदा सर्वेऽप्यऽमी लोका, निःशूकास्तां वितन्वते ।।१०।। सन्धा चेन्मे न पूर्वेत, तदा जीवाम्यहं कथम् ? । तत्पूर्तेस्तदुपायं मे, किञ्चिबूत मुनीश्वराः ! ।।११।। सूरिस्तेनेत्थमत्यर्थ, प्रार्थ्यमानोऽब्रवीदिति । पुरोधसस्तस्य सौधे, वद किं विद्यतेऽधुना ? ।।१२।। श्रेष्ठी स्माह गृहं नव्यं, कृतमस्ति पुरोधसा । स भूपं तत्प्रवेशाहे, सतन्त्रं भोजयिष्यति ।। १३ ।। तदर्थमधुना भोज्यं, विविधं तत्र जायते । तदाकाऽवदत्सूरिस्तद्दाक्षिण्योपरोधतः ।। १४ ।। पुरोधसो नव्यसौधे, भुक्तयर्थं सपरिच्छदम् । प्रविशन्तं विशामीशं, करे धृत्वा स्वपाणिना ।।१५।। प्रासाद एष पतती-त्युदित्वा चापसारयः । तदा चाहं तदागारं, पातयिष्यामि विद्यया ।।१६।। (युग्मम्) तनिशम्य तथाऽकार्षी-दिभ्योऽपतञ्च तद्गृहम् । तत: श्रेष्ठी नृपश्रेष्ठ-मित्यूचे तुष्टमानसः ।।१७।। युष्मान्हन्तुमुपायोऽय-मनेन विहितोऽभवत् । न चेन्नव्योऽप्यसौ कस्मा-दकस्मानिलयः पतेत् ? ।।१८।।
Ifoll Itall
61 16 isll
Mall
lvall Isil lalll
Kall lll
lloll
lall
||ll llell
Ifoll
Iell
llell
|oll Woll
||sil llell
lleel
in Ed
in
For Personal & Private Use Only
www.jainelibrary.org