________________
उत्तराध्ययन
सूत्रम्
liGll
१६३
lfoll liall
मध्ययनम्
lel
lioil lall Mall
isill
Mall Isl
मुने ! त्वदङ्गदौर्गन्ध्या-दुड्डाहो जायते भृशम् ! । तत्त्वया वसतावेव, स्थेयं गम्यं बहिर्न हि ।।१४।।
161 परीषहनाम इत्युक्तो मुनिभिः सोऽथ, दौर्गन्थ्यापनिनीषया । उद्दिश्य शासनसुरी, कायोत्सर्ग व्यधानिशि ।।१५।।
द्वितीयततस्तुष्टाऽवदद्देवी, किमभीष्टं करोमि ते ? । ऊचे वाचंयमो देवि !, चारुगन्धं विधेहि माम् ।।१६।। ततः सुरी सुगन्धं तं, तथा चक्रे यथा जनः । सर्वस्तदङ्गमाघ्राय, नैषीत्कस्तूरिकामपि ! ।।१७।। अहो ! मुमुक्षुरप्येष, सुगन्धिद्रव्यभावितः । सर्वदा तिष्ठतीत्यु-रुड्डाहः पुनरप्यभूत् ।।१८।।
ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती । गन्धं स्वाभाविकं तस्य, शरीरे विदधे सुरी ।।१९।। Nell इति जल्लपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् । अपरैरनगारकुञ्जरै-न विधेयं विधिवेदिभिस्तथा ।।२०।।
इति मलपरीषहे सुनन्दश्राद्धकथा ।।१८।।
जल्लोपलिप्तश्च शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्वा सत्कारपुरस्कारौ स्पृहयेदिति तत्परीषहमाह - Wall ||sll
अभिवायणमब्भुट्ठाणं, सामी कुज्जा निमंतणं । जे ताइं पडिसेवंति, न तेसिं पीहए मुणी ।।३८।।
व्याख्या - अभिवादनं शिरोनमनादिपूर्वं प्रणमामीत्यादिवचनं, अभ्युत्थानं ससम्भ्रममासनमोचनं, स्वामी राजादिः कुर्यात्, विदध्यात् ॥ 1 निमन्त्रणं, अद्य युष्माभिर्मट्टहे भिक्षा गृहीतव्येत्यादिरूपं, ये इति स्वयूथ्याः परतीर्थिका वा, तान्यभिवादनादीनि प्रतिसेवन्ते आगमनिषिद्धान्यपि || il भजन्ते, न तेभ्यः स्पृहयेत् । यथा भाग्यवन्तोऽमी ये इत्थमभिवादनाद्यैः सक्रियन्ते इति यतिन चिन्तयेदिति सूत्रार्थः ।। ३८।। किञ्च -
१६३
Isl
RON
lisill
llell
16ll
llell
llell
lall
oll | llell
lial Jain Edicional
llel
For Personal & Private Use Only
"-Mww.jainelibrary.org