________________
||७||
Poll
Nsh
उत्तराध्ययन
सूत्रम् १६२
||sil
परीषहनाम द्वितीयमध्ययनम्
lel ||l
lel
अभवत्पुरि चम्पायां, सुनन्दो नाम वाणिजः । स च श्राद्धः सर्वपण्य-र्व्यवहारं विनिर्ममे ।।१।। यदौषधादिकं तस्य, पार्श्वे योऽमार्गयन्मुनिः । स तत्तस्मै ददौ दर्पा-ऽऽविष्टः किञ्चिदवज्ञया ! ।।२।। तस्य हट्टेऽन्यदा जग्मु-ग्रीष्मकाले महर्षयः । भैषज्यार्थं परिस्वेद-मलक्लिन्नकलेवराः ।।३।। तेषां च मलगन्धेना-ऽत्युत्कटेन प्रसर्पता । भेषजानामशेषाणा-मपि गन्धोऽभ्यभूयत ।। ४ ।। मलगन्धं तमाघ्राय, सुरभिद्रव्यभावितः । सुनन्दोऽचिन्तयत्सर्वोऽप्याऽऽचारो वतिनां शुभः ।।५।। किन्त्वेवमतिदुर्गन्ध-मशेषजनगर्हितम् । यदेते बिभ्रति मलं, सर्वथा तन्त्र सुन्दरम् ! ।।६।। इति ध्यायन् स दुष्कर्मो-पार्जयन्मुनिनिन्दया । मृतश्च तदनालोच्य, श्रावकत्वात्सुरोऽभवत् ।।७।। ततश्च्युतश्च कौशाम्बी-पुर्यां सोऽभून्महेभ्यभूः । प्राव्राजीञ्च गुरोः पार्श्वे, श्रुत्वा धर्म विरक्तधीः ।।८।। तस्याऽन्यदा तनिर्ग्रन्थ-मलगर्हासमर्जितम् । कर्मोदियाय तेनाऽभू-त्सोऽतिदुर्गन्धविग्रहः ।।९।। शटत्सादिकुणप-गन्धादप्यधिकं तदा । तदीयदेहदुर्गन्धं, न सोढुं कोऽप्यऽभूत्प्रभुः ।।१०।। तद्वपुःस्पृष्टपूर्वेण, वायुनाऽपि जनोऽखिलः । अत्यर्थं व्याकुलश्चक्रे, सर्पणेव प्रसर्पता ! ।।११।। तदा च यत्र यत्राऽसौ, भिक्षाद्यर्थं ययौ यतिः । तत्र तत्र जनः सर्व-स्तद्गन्धेनाऽभ्यभूयत ।।१२।। तदीयदेहदौर्गन्थ्यो-डाहो जज्ञे जने महान् । ततस्तमन्ये मुनयः, प्रोचुरेवं महाधियः ।।१३।।
ilsi
||
Nell
Ill
16
16
१६२
11 Nell
lish
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org