________________
उत्तराध्ययन
सूत्रम् १५९
रोगिणश्च शयनादिषु दुःसहतरस्तृणस्पर्श इति तत्परीषहमाह -
II परीषहनाम
द्वितीयअचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुअमाणस्स, होजा गाय विराहणा ।।३४।।
मध्ययनम् व्याख्या - अचेलकस्य रूक्षस्य संयतस्य तपस्विनः तृणेषु दर्भादिषु शयानस्य उपलक्षणत्वादासीनस्य च भवेद्गात्रविराधना शरीरविदारणा, अत्र च सचेलस्य तपस्विनः तृणस्पर्शासम्भव इत्युक्तमचेलस्येति । अचेलस्यापि स्निग्धवपुषो नातिदुःखाकरस्तृणस्पर्श इत्युक्तं रूक्षयस्येति, Mol रूक्षस्यापि हरिततृणग्राहिणस्तापसादिवदसंयतस्य तृणस्पर्शो न व्यथायै स्यादिति संयतस्येत्युक्तमिति सूत्रार्थः ।।३४ ।। ततः किमित्याह - .
आयवस्स निवाएणं, अउला हवइ वेअणा । एअं नञ्चा न सेवंति, तंतुजं तणतज्जिआ ।। ३५।।
व्याख्या - आतपस्य धर्मस्य निपातेन सम्पातेन अतुला महती भवति वेदना, ततः किं कार्यमित्याह-एतदनन्तरोक्तं ज्ञात्वा न सेवन्ते तंतुजं' 6 वस्त्रं कम्बलं वा, तृणैर्दर्भादिभिस्तर्जिताः पीडितास्तृणतर्जिताः । अयं भावः-यद्यपि दर्भादितृणविलिखितवपुष आतपोत्पन्नस्वेदक्लेदवशात् ॥ is क्षतक्षारनिक्षेपरूपैव पीडा स्यात्तथापि कर्मक्षयार्थिभिर्वस्त्रादिकमनाददानैरातध्यानमकुर्वाणैः सा सम्यक् सोढव्या, जिनकल्पिकापेक्षञ्चैतत् । Mel Hell स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रादि सेवन्तेऽपीति सूत्रार्थः ।।३६ ।। उदाहरणञ्चात्र, तथाहि -
|| श्रावस्तीनगरीभर्तु-र्जितशत्रुमहीपतेः । भद्राभिधोऽभवत्सूनुः, सात्विकेषु शिरोमणिः ।।१।।
|| isi
मुनीनामन्तिके जैनं, धर्म श्रुत्वा विरक्तधीः । स प्रव्रज्यामुपादत्त, क्रमाझाऽभूद्वहुश्रुतः ।।२।।
|ell
llel
llel
Del
||sal
Ill llell
Jel lioI
For Personal Private Use Only