________________
उत्तराध्ययन
सूत्रम् १५८
परीषहनाम द्वितीयमध्ययनम्
||sil Isil llel foll 119
इति ध्यात्वा स निर्गत्य, पुरादारुह्य भूधरम् । महासत्त्वः पादपोप-गमनं विदधे मुनिः ।।२०।। तञ्चात्तानशनं ज्ञात्वा-ऽरक्षयत्स्वनरैर्नृपः । अस्योपसर्ग माकार्षी-त्कश्चिदित्यवधारयन् ।। २१।। इतश्च यो हतस्तेन, शिवोऽभूयन्तरस्तदा । सोऽपश्यत्तं भ्रमन् जात-कोपः प्रायुक्त चावधिम् ।। २२।। ज्ञात्वा प्राग्भववार्ता तां, वैरनिर्यातनोद्यतः । तं मुनीन्द्रमुपद्रोतुं, सवत्सां व्यकरोच्छिवाम् ।।२३।। नृपाऽऽयुक्ता नरा याव-त्तस्थुस्ते साधुसनिधौ । तावत्सा व्यन्तरकृता, शृगाली न जघास तम् ।।२४।। यदा तु ते नरा जग्मुः, साधुपार्धात्तदा तु सा । शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ।। २५ ।। तां शिवोत्पादितां पीडामर्शोबाधां च दुःसहाम् । स महात्माऽसहिष्टोछे-धैर्याऽधरितभूधरः ! ।। २६ ।। दुःखे रोगोत्थिते सत्य-प्याऽऽर्तध्यानविधायके । गोमायूत्पादिते चोग्र-रौद्रध्यानानुबन्धके ।। २७ ।। समतारसपाथोधि-मुनीन्द्रः कालवैशिकः । नार्तरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् ।। २८।। (युग्मम्) एवं पञ्चदशाहानि, तां शृगालीकृतव्यथाम् । सहमानो महासत्वः, प्रपाल्याऽनशनं शुभम् ।।२९।। केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च सः । महामुनिर्महानन्द-पदं प्राप महाशयः ।।३०।। (युग्मम्) इति रोगपरीषहं यथा, परिषेहे मुनिकालवैशिकः । सकलैरपि साधुभिस्तथा, सहनीयोऽयमुदारसाहसैः ।।३१।। इति रोगपरीषहे कालवैशिककथा ।।१६।।
llell foll 16l 161 Isl Isl Jel
Isll
Well
१५८
Mail
Ill Isl
llel
fol
Isil llsil
16
For Personal
Use Only