SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् १५६ SSSSSSSS तेगिच्छं नाभिणंदिज्जा, संचिक्खत्त गवेसए । एअं खु तस्स सामण्णं, जं न कुज्जा न कारवे । । ३३ ॥ परीषहनाम द्वितीय||७|| मध्ययनम् व्याख्या - चिकित्सां रोगप्रतिकाररूपां नाभिनन्देन्नानुमन्येत अनुमतिनिषेधाच्च दुरापास्ते करणकारणे । 'संचिक्खत्ति' प्राकृतत्वादेकारस्य ॥ लुप्तस्य दर्शनात् 'संचिक्खे' समाधिना तिष्ठेत्, न तु कूजितकर्करायितादि कुर्यात्, आत्मानं चारित्रात्मानं गवेषयति तदपायरक्षणेन मार्गयति योऽसौ ॥ ॥ आत्मगवेषकः, किमित्येवमत आह- 'एअंति' एतदनन्तरमभिधीयमानं 'खुत्ति' यस्मात्तस्य श्रमणस्य श्रामण्यं श्रमणभावो, यन्न कुर्यान्न कारयेत् ॥ उपलक्षणत्वान्नानुमन्येत, प्रक्रमाचिकित्सां । जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्त्वपवादे पुष्टालम्बना यतनया चिकित्सां कारयन्त्यपि ॥ यदुक्तं - "काहं अच्छित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ अ सारविस्सं, सालंबसेवी समुवेइ मुक्खं ।। १ ।। " इति सूत्रार्थः ॥ ।। ३३ ।। दृष्टान्तश्चात्र, तथाहि - Jain Education International अभूद्भूर्भूरिभूतीनां, नगरी मथुराभिधा । तत्राऽऽसीच्छत्रुवित्रासी, जितशत्रुर्धराधवः ||१|| कालाह्वां सोऽन्यदा वेश्यां, दृष्ट्वा हृद्यतराकृतिम् । चिक्षेपान्तः पुरे स्मेर - स्मरापस्मारविह्वलः ! ।।२।। भुञ्जानस्य तया भोगांस्तस्य राज्ञोऽभवत्सुतः । कालावेश्यासुत इति, कालवैशिकसञ्ज्ञकः ।। ३॥ क्रमेण यौवनं प्राप्तः, प्रसुप्तः सोऽन्यदा निशि । शब्दं श्रुत्वा शृगालानां पप्रच्छेति स्वसेवकान् ।। ४॥ शब्दोऽसौ श्रूयते केषां ?, फेरूणामिति तेऽवदन् । कुमारोऽथाऽब्रवीदेतान्, बद्ध्वानयत काननात् ।। ५ ।। तेऽप्येकं जम्बुकं बद्ध्वा ऽऽनीय तस्मै ददुर्वनात् । क्रीडारतिः कुमारोऽपि, वारं वारं जघान तम् ।। ६ ।। For Personal & Private Use Only তजब के १५६ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy