SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ॥७॥ foll Welhi उत्तराध्ययन सूत्रम् १५३ llell llel ill परीषहनाम द्वितीयflell isli मध्ययनम् 16l llell Isll llell Neil lfoll |Islil Nell liel Isil ततोऽन्तरायकरणात्, दृढं कर्मान्तरायिकम् । उपाय॑ मृत्वा भ्रान्त्वा च, भवे किमपि पुण्यतः ।।५।। द्वारकापुरि कृष्णस्य, वासुदेवस्य नन्दनः । सोऽभवडण्ढणादेवीकुक्षिजो ढण्ढणाभिधः ।।६।। (युग्मम्) क्रमात्स यौवनं प्राप्तो, भूयसीभूपपुत्रिकाः । पर्यणैषीत्स्वसौन्दर्या-धरितामरसुन्दरीः ।।७।। श्रीनेमिस्वामिनः पाचे, धर्ममाकर्ण्य सोऽन्यदा । विरक्तः प्राव्रजत्कृष्ण-कृतदीक्षामहोत्सवः ।।८।। अधीयानः श्रुतं साधु, स्वामिना विजहार सः । तस्यान्तरायिकं कर्मा-ऽन्यदोदयमवाप तत् ।।९।। ततः स विष्णोः पुत्रोऽपि, शिष्योऽपि त्रिजगद्गुरोः । द्वारकायां पुरि स्वर्ग-लक्ष्मीजित्वरसम्पदि ।।१०।। महेच्छानां महेभ्यानां, सदनेष्वपि पर्यटन् । भक्ष्यं किमपि न प्राप, प्राप चेन्नोचितं तदा ! ।।११।। (युग्मम्) समं तेन गतोऽन्योऽपि, मुनिः किञ्चन नाऽऽनशे । ततो हेतुमलब्धेः श्री-नेमि पप्रच्छ ढण्ढणः ।।१२।। तत्पूर्वभववृत्तान्तं, ततस्तं प्रभुरभ्यधात् । तं श्रुत्वा गाढसंवेगो, ढण्ढणोऽभ्यग्रहीदिति ।।१३।। लाभं मुनीनामन्येषां, न भोक्ष्येऽहमऽतः परम् । अभिगृह्येति स प्राज्ञो, भिक्षायै प्रत्यहं ययौ ।।१४।। भिक्षां चालभमानः स, नोद्विवेज न वा जनम् । निनिन्द किन्तु स्वं कर्म-दोषमेव व्यचिन्तयत् ।।१५।। अदीनमानसो नित्य-मित्यलाभपरीषहम् । सहमानोऽत्यगात्कालं, कियन्तमपि ढण्ढणः ।।१६।। अथान्यदा नेमिनाथं, पप्रच्छेति नारायणः । एषु स्वामिविनेयेषु, को नु दुष्करकारकः ? ।। १७ ।। 1161 १५३ Nol llel lell in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy