________________
III
Isil
Isl
उत्तराध्ययन
सूत्रम् १५१
परीषहनाम
द्वितीय||७|| मध्ययनम्
llol
Tell
Jel
Isl
WEM
||७||
प्रतियामं वारकेण, जाग्रद्भिः स्थेयमात्मभिः । इति निश्चित्य ते तत्र, वटस्याधोऽवसनिशि ।।२।। सुप्तेष्वऽन्येष्वाऽऽद्ययामे, यामिकं तत्र दारुकम् । पिशाचरूपभृत्कोपः, समागत्यैवमऽब्रवीत् ।।३।। ग्रसिष्ये शयितानेता-नहं क्षुत्क्षामकुक्षिकः । त्वं रक्षकोऽसि यद्येषां, तन्नियुद्धं प्रदेहि मे ।।४।। ओमित्युक्त्वा दारुकोऽपि, तेन साकमयुद्ध्यत । अशक्नुवन् पिशाचं तं, जेतुमुच्चैश्चकोप च ।।५।। चुकोप दारुकोऽत्यर्थ, पिशाचाय यथा यथा । कोपात्मकः पिशाचोऽपि, सोऽवर्धत तथा तथा ।।६।। वर्द्धमानेन तेनाभि-भूयमानो मुहुर्मुहुः । दारुकः प्रथमं याम, कृच्छ्रेण महताऽत्यगात् ।।७।। द्वितीये यामे तूत्थाप्य, सत्यकं दारुकोऽस्वपीत् । तमपि व्याकुलीचक्रे, स पिशाचस्तथैव हि ।।८।। बलं प्रबोध्य सुष्वाप, सोऽथ यामे तृतीयके । पिशाचोऽपि तथैव द्राक्, बलमप्यबलं व्यधात् ।।९।। अशेत तुर्यप्रहरे, हरिमुत्थाप्य सात्वतः । पिशाचस्तु तमप्येव-मभ्येत्योवाच गर्वितः ।।१०।। सुप्तानेतानहं प्सातु-मागतोऽस्मि बुभुक्षितः । विष्णुः प्रोचे मामजित्वा, सहायान् हंसि मे कथम् ? ।।११।। तत: पिशाचगोपीशी, नियुद्धं चक्रतुर्भृशम् । स्फोटयन्ताविव भुजा-स्फोटैर्ब्रह्माण्डसम्पुटम् ।।१२।। यथा यथोचैर्युयुधे, स पिशाचस्तथा तथा । अहो ! तरस्वी मल्लोय-मित्यतुष्यद्धृशं हरिः ।।१३।। कृष्णो यथा यथाऽतुष्य-त्सोऽहीयत तथा तथा । हरिणेति क्षयं नीतो, लघुर्बाढं बभूव सः ।।१४।।
||sl Nell
||sil Isll
Isl
Isl
61
JI
Ish
|sil isill
JainEducation interShorus
For Personal & Private Use Only
"
ww.jainelibrary.org