SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १४९ is परीषहनाम द्वितीयIN मध्ययनम् Jo न च कर्मपरीणामो, देवैरप्यन्यथा भवेत् । तत्प्रयत्नममुं त्यक्त्वा, मदभीष्टमदः कुरु ।।२४८।। शङ्खचक्रगदाखङ्ग-धारिणं गरुडध्वजम् । पीताम्बरं विमानस्थं, कृत्वा मामञ्जनद्युतिम् ।। २४९।। आत्मानं हलमुसल-धारिणं नीलवाससम् । तालकेतुं विमानस्थं, विकृत्येन्दुच्छविच्छविम् ।। २५०।। गत्वा च भरतक्षेत्रे, दर्शय त्वं पदे पदे । विशेषतो द्वेषिपुरे-ष्वस्मन्नाशप्रमोदिषु ।। २५१।। (त्रिभिर्विशेषकम्) तया दुर्दशया जात-तिरस्कारो यथाऽऽवयोः । उपशाम्यति लोकश्च, वेत्त्यावामविनश्वरौ ।। २५२।। इदं भ्रातृवचो रामः, स्वीकृत्य भरते गतः । सर्वत्राऽदर्शयद्रूप-द्वयं कृत्वा तथैव तत् ।। २५३।। तद्वीक्ष्य विस्मितान् लोका-नित्यूचे च स निर्जरः । आवयोः प्रतिमां कृत्वा, प्रपूजयत भो जनाः ! ।। २५४ ।। उत्पत्तिस्थितिविध्वंस-कारका वयमेव हि । आगच्छाम इह स्वर्गा-त्स्वर्ग यामश्च लीलया ।। २५५ ।। अस्माभिरकाऽकारि, क्षिप्ता संहत्य चोदधौ । वयमेव च लोकानां, स्वर्गादिसुखदायकाः ।। २५६।। तदाकर्ण्य जनाः सर्वे, सर्वत्र बलकृष्णयोः । अर्चा कृत्वाऽर्चयंस्तेषा-मुदयं च ददौ सुरः ।। २५७।। लोकोऽखिलो विशेषात्त-त्पूजासक्तोऽभवत्ततः । इति भ्रातुर्वचः कृत्वा, रामः स्वस्थानमासदत् ।। २५८।। तस्य रामामरस्य प्राग, द्वादशाब्दशतायुषः । स्वलॊके जीवितं जज्ञे, सागराणि दशैव हि ।। २५९।। ततच्युतश्चोत्सर्पिण्यां, भाविन्यां द्वादशार्हतः । कृष्णजीवस्याऽममस्य, तीर्थेऽसौ सिद्धिमेष्यति ।। २६० ।। iii oil llel || ell १४९ isill el s Jain Education international For Personal & Private Use Only Marww.janelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy