________________
191
lel
उत्तराध्ययन
सूत्रम् १४८
Il
1॥ Ill
परीषहनाम 116 द्वितीयIll मध्ययनम् ||६|| || ell
foll
llel
मृगोऽपि स तदा बाष्प-जलापूर्णविलोचनः । निध्यायन् साधुरथिका-वध्यायदिति शुद्धधीः ।। २३४ ।। अहो ! अत्युग्रतपसां, निवासोऽसौ महामुनिः । अनुग्रहं रथकृत-श्चक्रे स्वाङ्गेऽपि निर्ममः ।। २३५।। अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः । शुद्धः पानाशनै: साधु, प्रतिलम्भयति स्म यः ।। २३६।। निर्भाग्योऽहं तु सम्प्राप्त-तिर्यक्त्वः कर्मदोषतः । तपस्तप्तुं मुनेर्दातु-ज्ञासमर्थः करोमि किम् ? ।। २३७।। तदा च रामरथकृ-न्मृगाणामुपरि क्षणात् । महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ।। २३८।। पतता तरुणा तेन, सुध्यानास्ते हतास्त्रयः । ब्रह्मलोकेऽभवन् देवाः, पद्मोत्तरविमानगाः ।। २३९।। व्रतं वर्षशतं याव-त्प्रपाल्य त्रिदिवं गतः । रामोऽथावधिऽज्ञासी-तृतीयनरकेऽनुजम् ।। २४०।। ततः स भ्रातरं द्रष्टु-मुत्सुक: स्नेहसम्भ्रमात् । कृष्णाभ्यर्णमगात्कृत्वा, वपुरुत्तरवैक्रियम् ।। २४१।। मणिद्युतिभिरुद्योतं, कृत्वा दृष्ट्वा च सोदरम् । पूर्ववत्स्नेहलो रामः, परिरभ्येवमब्रवीत् ।। २४२।। भ्राता ते रामनामाहं, पञ्चमाद्देवलोकतः । इहाऽऽगतोऽस्मि तब्रूहि, किमभीष्टं करोमि ते ? ।। २४३।। कृष्णोऽप्युवाच स्वकृत-कर्मदोषोद्भवामिमाम् । पीडां भुञ्ज न कोप्यत्र, प्रतिकर्तुं भवेत्प्रभुः ।। २४४।। ततो रामस्तमाक्रष्टुं, नरकात्स्नेहमोहितः । द्रुतमुत्पाटयामास, पाणियुग्मेन बालवत् ।। २४५।। उत्पाटित: स रामेण, वह्निस्थनवनीतवत् । विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ।। २४६।। मां मुञ्च मुञ्च हे भ्रातः !, प्रयासेनामुना कृतम् । त्वया ह्युत्पाट्यमानस्य, पीडा मे जायते भृशम् ।।२४७।।
fell
lifoll lol
Isl
61 Isll Isll
Jan Education international
For Personal Private Use Only
www.jainelibrary.org