________________
DAL
I
III
l
उत्तराध्ययन-
सूत्रम् १४७
Jell le
का परीषहनाम
द्वितीय6 मध्ययनम्
sill
lel
| ||oll
||roll
तया देशनया व्याघ्र-सिंहाद्याः श्वापदा अपि । बभूवुर्बहवः शान्ताः, केचित्तु श्राद्धतां दधुः ।। २२१।। केचिञ्चानशनं चक्रुः, केऽपि भद्रकतां ययुः । त्यक्तमांसाशनाः केऽपि, रामसाधु सिषेविरे ! ।। २२२।। एणस्त्वेको बलमुनि, प्रेक्ष्य प्राग्भवसङ्गतेः । जातजातिस्मृतिः प्राप्त-संवेगस्तं सदाऽभजत् ।। २२३।। स च तत्राऽऽगतान् सान्न-पानान् काष्ठादिहारकान् । साध्वर्थमन्वेषयितु-मरण्येऽन्वहमऽभ्रमत् ।। २२४।। तांश्च वीक्ष्याऽऽगतो भिक्षा-दायकान् साधुसन्निधौ । स्पृशंस्तदङ्क्रीं शिरसा, प्रेरयामास तं रयात् ।। २२५ ।। समाप्य ध्यानमेणेन, समं तेनाऽध्वदर्शिना । रामर्षिरपि भिक्षायै, तपःपारणकेष्वऽगात् ।। २२६ ।। अथ प्रधानकाष्ठार्थ-मन्यदा रथकारकाः । वने तत्र समाजग्मुः, चिच्छिदुश्च तरून् बहून् ।। २२७ ।। स सारङ्गो भ्रमन् वीक्ष्य, तान् भुञ्जानान् प्रमोदवान् । द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधवे ।। २२८ ।। ध्यानं प्रपूर्य रामर्षिरपि मासस्य पारणे । हरिणेन समं तेन, तत्र भिक्षाकृते ययो ।। २२९।। रथकारपुरोगोऽथ, रामं वीक्ष्य व्यचिन्तयत् । दिष्ट्या दृष्टो वनेऽप्यत्र, मुनिः कल्पद्रुवन्मरो ।। २३०।। अहो ! अस्य मुनेः क्षान्ति-रहो ! रूपमहो ! महः । तदहं कृतकृत्योऽस्मि, यस्यासावतिथिर्मुनिः ।। २३१।। अथास्मै भोजनं दत्वा-ऽऽत्मानं विमलयाम्यहम् । विचिन्त्येति स पञ्चाङ्ग-स्पृष्टभूर्मुनिमानमत् ।। २३२।। आनीयाऽशनपानादि, प्रदातुञ्चोपचक्रमे । तन्निर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ।। २३३।।
|| lel Ifoll
el ||oll liGll llel llel liGll liel lroll
Nell
islil
Gll llell llell
१४७
Isl
Del
For Personal Private Use Only