________________
||७| Isil
उत्तराध्ययन
सूत्रम् १४६
|| lell
6 परीषहनाम
द्वितीयमध्ययनम्
Mail ||
||61
lel
foll ||Gl
lel
lal
lel
तं रुदन्तं क्षिप्यमाणं, कूपे प्रेक्ष्यार्भकं मुनिः । दध्यौ रूपमिदं धिङ्मे, महानर्थककारणम् ! ।।२०८।। अहं वनस्थ एवाऽथ, दत्तं काष्ठादिहारकैः । आहारादि ग्रहीष्यामि, न यास्यामि पुरादिषु ।। २०९।। अभिगृह्येति रामर्षि-स्तां वशां प्रतिबोध्य च । तत एव निवृत्त्यऽगा-त्तुङ्गिकादिशिरोवनम् ।। २१०।। मासिकादि तपः कृत्वा, मुनिः पारणकेषु सः । तृणकाष्ठादिहारिभ्यः, प्रासुकाहारमाददे ।। २११।। काष्ठादिहारकानीचा-नहमभ्यर्थये कथम् ? । पुरा त्रिखण्डनाथोऽपि, नैवं दध्यो बलस्तदा ! ।। २१२।। याचमानो महेभ्यान-प्यन्यो निर्वेदमश्नुते । रामर्षिस्तु न निवेदं लेभे तत्प्रार्थनादपि ।। २१३ ।। तितिक्षमाणो रामषि-रेवं याञ्चापरीषहम् । सुदुस्तपं तपस्तेपे, मासिकादि महाशयः ।। २१४ ।। काष्ठादिहारकास्तेऽथ, स्वस्वराजमदोऽवदन् । तपः करोति विपिने, नरः कोऽपि सुरोपमः ! ।। २१५ ।। ततस्ते व्यमृशन्नून-मस्मद्राज्यजिघृक्षया । तपः करोति मन्त्रं वा, साधयत्ययमुत्तमम् ।। २१६।। सद्यो व्यापादयामस्त-तत्र गत्वाऽद्य तं नरम् । सहन्ते न हि राजानो-ऽपरं राज्यार्थिनं जनम् ! ।। २१७ ।। ध्यात्वेति ते बलोपान्ते, ससैन्या युगपद्ययुः । बहून् सिंहांस्ततश्चक्रे, सिद्धार्थस्तत्र भीषणान् ।। २१८ ।। वीक्ष्य तान् विकृतान् भीता, नत्वा रामं ययुर्नृपाः । नरसिंह इति ख्याति, लोके लेभे ततो बलः ।। २१९ ।। स च राममुनिस्तत्र, वने तिष्ठन् कृपोदधिः । सिंहादीनां श्वापदानां, पुरो धर्मकथां व्यधात् ।। २२० ।।
||sl ||७||
Ill ||ol || I161
llell
||sil Nel
lol
Poll
Ill ||
Isil
||61
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org