________________
उत्तराध्ययन
सूत्रम्
१४५
fol
परीषहनाम ||sl द्वितीयlil
मध्ययनम् alll lioll lifall loll
Hell Moll
सिद्धार्थोऽथाऽवदद् भ्रात-रिदानीं ते विवेकिनः । सर्वसङ्गपरित्यक्ता, परिव्रज्यैव युज्यते ! ।।१९५।। रामस्तत्प्रतिपद्याशु, नाकिना तेन संयुतः । तटिनीसङ्गमेऽभ्यर्च्य, सञ्चस्कार हरेर्वपुः ।। १९६ ।। रामस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकृत् । चारणश्रमणं प्रेषी-तत्याचे प्राव्रजद्वलः ।। १९७।। तुङ्गिकाशैलशृङ्गे च, गत्वाऽत्युग्रं तपोऽतनोत् । तस्थौ सिद्धार्थदेवोऽपि, तद्रक्षायै तदन्तिके ।। १९८ ।। इतश्च स जरासूनुः, प्राप्तः पाण्डवसन्निधौ । द्वारकाकृष्णनाशाद्य-मवदद्दत्तकौस्तुभः ।। १९९।। ततः शोकाम्भोधिमग्नाः, पाण्डवा वत्सरावधि । क्रन्दन्तः करुणं प्रेत-कर्माणि विदधुर्हरेः ।। २००।। व्रतार्थिनोऽथ तान् ज्ञात्वा, वृतं पञ्चशतर्षिभिः । चतुर्ज्ञानं धर्मघोष-मुनिं प्रेषीच्छिवाङ्गजः ।। २०१।। ततो दत्वा जरासूनो-राज्यं तस्यान्तिके गुरोः । प्रव्रज्य पाण्डवाश्चक्रु-घोरं साभिग्रहं तपः ।। २०२।। श्रीनेमि तेऽन्यदा नन्तुं, प्रस्थिताः प्रतिरैवतम् । शुश्रुवुः स्वामिनिर्वाणं, हस्तिकल्पपुरं गताः ।। २०३।। ततस्ते प्रोद्भवदुःखा, आरुह्य विमलाचलम् । विधायानशनं प्राप्य, केवलं शिवमासदन् ।। २०४।। इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् बलः । अतितीव्र मासपक्ष-क्षपणादि तपोऽतनोत् ।। २०५।। सोऽन्यदा प्रविशन् क्वापि, पुरे मासस्य पारणे । स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सबालया ।। २०६।। साऽभूयग्रमना वीक्ष्य, रामरूपं मनोरमम् । कुम्भकण्ठभ्रमाडिम्भ-कण्ठे पाशं बबन्ध च ।। २०७।।
Wel
||oll
llell
liall
foll
Ioll ell
isli
lol
lll
For Personal Private Use Only