________________
lall lall
उत्तराध्ययन
सूत्रम् १४०
|| ne परीषहनाम
द्वितीयItall
6 मध्ययनम् ||oll
liell
oll foll
Ol
Iol lell
all
Mell
lifell
निकुञ्जस्थोऽथ स प्रोचे, हरिवंशरवेरहम् । सुतोऽस्मि वसुदेवस्य, जरादेवीसमुद्भवः ।।१३०।। जराकुमारनामाऽग्र-जन्माराममुकुन्दयोः । श्रीनेमिवाक्यमाकर्ण्य, कृष्णं त्रातुमिहागमम् ! ।। १३१।। द्वादशाब्दीबभूवाऽद्य, वसतोऽत्र बने मम । नाऽपश्यं मानुषं त्वत्र, ब्रूहि, कस्त्वमिहाऽऽगत: ? ।।१३२।। तच्छ्रुत्वा विष्णुरित्याख्य-दागच्छागच्छ बान्धव ! । तव भ्राताऽस्म्यहं कृष्णो, यं त्रातुं त्वं वनं श्रितः ! ।। १३३ ।। भ्रातादश वर्षाणि, वनवासादिकस्तव । मुधायासोऽभवन्मिथ्या-मतेरिव तपस्यतः ! ।। १३४ ।। तदाकाकुलस्वान्तः-सम्भ्रान्तो भृशमुन्मनाः । केशवो वक्ति किमय-मिति दध्यौ जराङ्गजः ।। १३५ ।। आययौ च द्रुतं तत्र, प्रेक्षाञ्चक्रे च केशवम् । प्रजल्पन् हा ! हतोस्मीति, मुमूर्च्छा पपात च ।।१३६ ।। कथञ्चिल्लब्धसञस्तु, जराभूविलपन भृशम् । अप्राक्षीत्पुण्डरीकाक्षं, त्वमागाद्भातरत्र किम् ? ।। १३७ ।। द्वैपायनेन किं दग्धा, द्वारका यदुभिः समम् ? । किं नेमिस्वामिनो वाणी, सा सर्वासूनृताऽभवत् ? ।। १३८ ।। कृष्णोऽथ सर्ववृत्तान्तं, यथाजातमऽभाषत । ततः शोकाग्निसन्तप्तः, प्रोवाचैवं जरासुतः ! ।।१३९।। आतिथ्यं भ्रातुरतिथे:, पापेनाऽदः कृतं मया । हा ! क्व गच्छाम्यहं स्वास्थ्य-मवाप्स्यामि क्व वा गत: ? ।।१४०।। दुर्दशाम्भोधिमग्नस्य, भ्रातुर्भ्रातृहितस्य ते । घातकोऽहं न हि स्थानं, प्राप्यामि नरकेष्वपि ! ।।१४१।। अहं तवैव रक्षाये, वनवासमशिश्रियम् ! । त्वमप्यत्रैव दुर्दैवे-नाऽऽनीतस्तत्करोमि किम् ? ।।१४२।।
Mell llell
liell
lell
le
lioll
1161 Ifall
lell
llel
fiell fiell
Jell
foll
||slil
Isll
llel
leil
lioll Irell
lioll al
in Education
For Personal & Private Use Only
.. inwww.jainelibrary.org