SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १३८ & परीषहनाम Mon द्वितीय|| मध्ययनम् 16 Mool || Nell Isl यदि चात्र पुरे कश्चि-दपायो मे भविष्यति । तदा क्ष्वेडां करिष्येह-मागच्छेस्त्वं निशम्य ताम् ।।१०४ ।। इत्युक्त्वाऽन्तर्हरिं ध्यायन्, प्राविशत्तत्पुरं बल: । दिव्यरूपः पुमान्कोऽय-मिति लोकैविलोकितः ।। १०५ ।। अहो ! प्रमाणोपेतत्व-महोरूपमहोमहः ! । इति दध्युर्बलं प्रेक्ष्य, पौरास्तत्र पुरेऽखिलाः ।। १०६।। ते श्रुतद्वारकादाहा, इति च व्यमृशन्मिथः । ज्वलत्स्वपुर्या निर्यातो, नन्वायातोऽस्त्यऽसौ हली ।। १०७।। रामोऽपि मुद्रिकां दत्वा, भोज्यं कान्दविकाच्छुभम् । आददे कटकं दत्वा, शौण्डिकाद्वारुणीमपि ।।१०८।। तदादाय बहिर्गन्तुं, प्रस्थितं प्रेक्ष्य सात्वतम् । सविस्मयाः पुरारक्षा, गत्वा राज्ञेऽवदन्नदः ।। १०९।। रूपेण सीरिणस्तुल्ये, नरः कोप्यद्य दस्युवत् । मुद्रिकावलये भूरि-मूल्ये दत्वा भवत्पुरे ।। ११० ।। गृहीत्वा भोज्यमदिरे, अस्तीदानीं बहिर्वजन् । ततो यत् स्याद्विधेयं त-द्धराधीश ! विधीयताम् ।। १११ । । (युग्मम्) तच्छ्रुत्वा स नृपो हन्तुं, बलं बलयुतो ययौ । गोपुरं च व्यधादत्त-कपाटं सज्जतार्गलम् ।। ११२।। युयुत्सया तमायान्तं, वीक्ष्य क्ष्वेडां व्यधाद्वलः । मुक्त्वाऽन्नपाने पार्श्वस्थमारोहञ्च महागजम् ।। ११३।। उन्मूल्यालानमहितान्, हन्तुं प्रववृते हली । रामक्ष्वेडां मुकुन्दोऽपि, श्रुत्वाऽऽगाद्गोपुरे द्रुतम् ।। ११४ ।। भङ्क्त्वा कपाटो पुर्या च, प्रविश्यादाय चार्गलम् । हत्वा सैन्यानच्छदन्तं, वशीकृत्याऽच्युतोऽब्रवीत् ।। ११५ ।। आत्मवैरिनरे मूढ !, किमिदं भवता कृतम् । किमस्माकं वपुर्वीर्य-मप्यज्ञासीद्गतं भवान् ! ।।११६ ।। lloll ||७|| ||७|| ||Gll llell losil 16l 116ll Joll Isl llagll ||६|| IGl 16 १३८ leel Isll aindacation allora For Personal & Private Use Only He || www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy