SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १३४ द्वितीयवारमप्येव-मथ विष्णुरघोषयत् । उपस्थितमिदं लोकाः !, द्वैपायनभयं महत् ।। ५४ ।। तत्कृपासूनृतास्तेय-ब्रह्मचर्यापरिग्रहान् । यथाशक्ति प्रपद्यध्व-माचाम्लादितपस्तथा ।। ५५ ।। कुरुध्वं देवपूजाञ्च प्रयत्नेन महीयसा । इत्याकर्ण्याऽखिलो लोक-स्तत्तथा प्रत्यपद्यत ।। ५६ ।। मृत्वा वह्निकुमारेषू-त्पन्नो द्वैपायनोऽप्यथ । द्वारकामाययौ स्मृत्वा प्राग्वैरं यदुगोचरम् ।। ५७ ।। देवपूजातपोनिष्ठपौरायां पुरि तत्र सः । परं धर्मविशेषेण, नापकर्त्तुमभूत्प्रभुः ।। ५८ ।। ततः सोन्वेषयंश्छिद्रा-ण्यसुरोऽस्थात्पुरेऽन्तरे । 'अथेत्थं द्वादशे वर्षे, प्राप्ते लोको व्यचिन्तयत् ।। ५९।। अस्मत्तपः प्रभावाद्धि, नष्टो द्वैपायनामरः । तद्दुस्तपं तपस्त्यक्त्वाऽधुना स्वैरं रमामहे ! ।। ६० ।। इति ते क्रीडितुं लग्ना, मद्यमांसादिसेविनः । द्वेपायनोऽपि तच्छिद्रमासाद्य मुमुदे ऽधिकम् ।। ६१ ।। द्वारकायां तदा चासत्रुत्पाताः क्षयसूचकाः । हलचक्रादिरत्नानि, प्रणेशः सीरिशार्ङ्गिणोः ।। ६२ ।। ततो विकृत्य संवर्त्त-वातं द्वैपायनासुरः । काष्ठपत्रतृणव्यूहा-नाहृत्याऽपूरयत्पुरीम् ।। ६३ ।। दिग्भ्योऽष्टभ्योऽपि तेनैव, वातेन निखिलान् जनान् । पलायमानानानीय, निचिक्षेप पुरोऽन्तरे ।। ६४ ।। द्वासप्ततिं पुरो मध्य-गताः षष्टिं बहिः स्थिता । कुलकोटी: पिण्डयित्वा स देवोऽग्निमदीपयत् ।। ६५ ।। ९. इत्थं द्वादश वर्षाणां प्रान्ते लोको व्यचिन्तयत् । इति 'ग' सञ्ज्ञकपुस्तके || Jain Education International For Personal & Private Use Only ||७|| परीषहनाम द्वितीय||७|| मध्ययनम् BTTTTTTT १३४ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy