SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १३२ its Illl Isll s lil परीषहनाम द्वितीयlish 61 मध्ययनम् lol all leall llsil Islil s ||61 Isll Isil oil इतश्चानेकवृक्षौघ-पतत्कुसुमसङ्गमात् । षण्मास्या सा सुरा कुण्ड-स्थिता पक्वरसाऽभवत् ।।२७।। तदा च कोऽपि शाम्बस्य, लुब्धकः पर्यटन् वने । तत्र यातस्तृषाक्रान्तः, पपौ तां मदिरां मुदा ।। २८।। मुदितस्तेन मद्येन, भृत्वा पार्श्वस्थितां दृतिम् । ददौ शाम्बाय तत्पीत्वा, तुष्टः शाम्बोऽपि तं जगौ ।। २९।। प्राप्तं हृद्यमिदं मद्य-मद्य कुत्र ? त्वया सखे ! । कादम्बरीकन्दराया-मवापमिति सोऽप्यवक् ।।३०।। कुमारैः सह दुर्दान्त-स्तत: शाम्बोऽपरेऽहनि । गुहां कादम्बरी गत्वा, मुदितस्तां सुरां पपौ ।।३१।। बहो: कालादधिगतां, यावत्तृप्ति निपीय ताम् । उन्मत्ता गिरिमारोहन, क्रीडन्तस्ते कुमारकाः ।।३२।। तत्र द्वैपायनं ध्यान-स्थितमातापनापरम् । वीक्ष्येति ते मिथ: प्रोचु-र्मद्योन्मादवशंवदाः । ।।३३।। अयं हि नेमिना प्रोक्तोऽस्मत्पुरीकुलनाशकः ! । तद्धन्यतां हतो ह्येष, कथं हन्ता पुरीकुले ! ।।३४।। वदन्त इति ते सर्वे, चपेटायष्टिमुष्टिभिः । निजघ्नुः पादघातैश्च, द्वैपायनमुनिं मुहुः ।। ३५।। इत्थं हत्वा मृतप्रायं, विधाय धरणीतले । पातयित्वा च ते जग्मुः, कुमारा द्वारकापुरीम् ।। ३६।। तद्विज्ञाय चरैर्विष्णु-विषण्णो ध्यातवानिति । अहो ! एषां कुमाराणां दुर्दान्तत्वमनर्थकृत् ! ।।३७।। अथैषां प्राणभूतानां, किं करोमीति चिन्तयन् ? । द्वैपायनमनुनेतुं, तत्रागात्सबलो हरिः ! ।।३८।। तचापश्यत्परिव्राजं, कोपारुणविलोचनम् । ततस्तत्कोपशान्त्यर्थ-मभ्यधादिति माधवः ।।३९।। Ioll 16 Del Isl llsil ||Gll Noll ||slil Isll Isil Isll Isl 16ll tell For Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy