________________
Isl
उत्तराध्ययन
सूत्रम् १३१
lloll llall
Gll
Moi परीषहनाम
द्वितीयPoll Mall मध्ययनम्
Mall
llell
Gll lisil Icell
llel
foll
कनीयांसं कुलाधारं, भ्रातरं भ्रातृवत्सलम् । कथङ्कारं हनिष्यामि ? वसुदेवसुतोऽप्यहम् ! ।।१५।। तदेतदन्यथा कुर्वे, ध्यायन्निति जराङ्गजः । जिनं नत्वा ययौ सद्यः, कान्तारं चापतूणभृत् ।।१६।। जिनवाचं जनश्रुत्या, श्रुत्वा द्वैपायनोऽपि ताम् । यदूनां द्वारकायाश्च, रक्षा कर्तुमगाद्वनम् ।।१७।। नत्वार्हन्तं हरिरपि, प्राविशद्वारकापुरीम् । तं चानर्थं मद्यमूलं, ध्यायनित्युदघोषयत् ।।१८।। मद्योन्मत्तकुमारोघ-हताद्वैपायनाद्यतः । उपद्रवो द्वारकायाः, श्रीनेमिस्वामिनोदितः ।।१९।। तत्पार्श्वस्थाचलासन्न-'कदम्बवनमध्यतः । कादम्बरीदरीवर्ति-शिलाकुण्डेषु भूरिषु ।। २०।। सकलं प्राक्कृतं मद्यं, हेयं पेयं न तत्पुनः । लोकाः सर्वेऽपि तच्छ्रुत्वा, जहुस्तत्राखिलां सुराम् ।। २१।। (त्रिभिर्विशेषकम्) भ्राताऽथ बलदेवस्य, स्नेहात्तस्यैव सारथिः । सिद्धार्थः श्रुतसर्वज्ञ-वाणिरित्यवदद्वलम् ।। २२।। नोत्सहे दुर्दशां प्राप्ते, द्रष्टुं स्वीयपुरीकुले । तदहं स्वामिपादान्ते, प्रव्रजामि त्वदाज्ञया ।।२३।। ततोऽब्रवीद्वलोऽजस्त्र-स्रवदश्रुजलाविलः । भ्रातर्मयेदं त्वद्वश्य-प्राणेनाऽप्यनुमन्यते ।। २४ ।। किन्तु व्रतं पालयित्वा, त्वं देवत्वमुपागतः । भ्रातर्मा व्यसनप्राप्त-मागत्य प्रतिबोधये: ।। २५ ।।
तत्प्रपद्याथ सिद्धार्थो, परिव्रज्य जिनान्तिके । अत्युग्रञ्च तपस्तावा, षड्भिर्मासैः सुरोऽभवत् ।। २६ ।। १. कदम्बवनवत्तिषु । इति 'ग' संज्ञकपुस्तके ।।
Ileall
lival
61
||sil
llol Ill
llll ||
sil
|| ||ol
१३१
ISM
||sl
llell Jain Education international
IIsl IIRollowiainelibrary.org
For Personal & Private Use Only