SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ IIoll Woll all उत्तराध्ययन- सूत्रम् १३० llell llell is परीषहनाम द्वितीयमध्ययनम् llall liall llell lifeil lall Mell Isll Ioll lall 16ll तौ च प्रद्युम्नशाम्बाद्यैः, सार्धकोटित्रयोन्मितैः । युक्तौ कुमारैरन्यैश्च, कोटिशो यदुपुङ्गवैः ।।३।। सुररामाभिरामाभिः, स्त्रीभिः सह सहस्रशः । भोगाभोगानभुञ्जाता, पूर्णाखिलमनोरथौ ।। ४।। (युग्मम्) अन्यदा द्वारकापुर्या, केवलज्ञानभास्करः । भव्याब्जप्रतिबोधार्थ, श्रीनेमिः समवासरत् ।।५।। तदा च श्रीनेमिनाथं, वन्दित्वा रामकेशवौ । समाकर्णयतां धर्म-देशनां सपरिच्छदो ।।६।। देशनान्ते च सर्वज्ञ, प्रणम्यापृच्छदच्युतः । अमुष्या द्वारकापुर्याः, स्वर्गधिक्कारिसम्पदः ।।७।। यदूनां मम चान्तः किं, भावी स्वत उतान्यतः ? । ततो जगाद भगवान्, ज्ञानराशिरिवाङ्गवान् ।।८।। बहिः शौर्यपुरात्पारा-सराह्वस्तापसोऽभवत् । वीक्ष्य नीचकुलां काञ्चित्कन्यां सोऽभूत्स्मरातुरः ।।९।। तया समं च यमुना-द्वीपे गत्वाऽऽरराम सः । ततस्तयोरभूत्सूनु-व्रती द्वैपायनाह्वयः ।।१०।। स परिव्राजको ब्रह्म-चारी शान्तो जितेन्द्रियः । इहास्ते यदुषु स्नेहात्, कुर्वन् षष्ठतपः सदा ।।११।। शाम्बादिभिः स मद्यान्धेः, कुट्टितश्चण्डतां गतः । 'यदुभिः सकलां साकं, द्वारकां ज्वालयिष्यति ।।१२।। वसुदेवजरादेवी-नन्दनान्निजसोदरात् । भावी जराकुमाराच, तव मृत्युर्जनार्दन ! ।।१३।।। श्रुत्वेति यदवः सर्वे-ऽप्युल्मकायितदृष्टयः । व्यलोकयन् जरापुत्रं, सोऽपि चैवमचिन्तयत् ।।१४।। १. यदुभिः सकैः साकं, द्वारकां ज्वालयिष्यति । इति 'ग' संज्ञकपुस्तके ।। foll IIoll iall |Gll ||sill lloll १३० llel lalll llol Isll Mall www.jainelibrary.org in Educationa l For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy