________________
उत्तराध्ययन
सूत्रम्
१२९
16 lish
Isi
lall
परेरभिहतस्य च यतेस्तथाविधौषधादियाचितमेव स्यादिति तत्परीषहमाह -
ल परीषहनाम दुक्करं खलु भो निचं, अणगारस्स भिक्खुणो । सव्वं से जाइ होई, नत्थि किंचि अजाइअं ।। २८ ।।
द्वितीय
मध्ययनम् ||७||
व्याख्या - दुष्करं दुरनुष्ठेयं, खलुर्विशेषणे, निरुपकारिण इति विशेष द्योतयति, 'भो' इत्यामन्त्रणे, नित्यं सर्वकालं यावज्जीवमित्यर्थः, कि is अनगारस्य भिक्षोः । किं तदुष्करमित्याह-यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति किञ्चिदन्तशोधनादिकमप्ययाचितमिति का सूत्रार्थः ।।२८।। ततश्च -
गोअरग्गपविट्ठस्स, पाणी नो सुप्पसारए । सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ।। २९।।
व्याख्या - गोचरो भिक्षाचर्या, तस्याग्रं गोचराग्रं, एषणा शुद्धग्राहितया प्रधानगोचर इत्यर्थः । तत्प्रविष्टस्य मुनेरिति गम्यं, पाणिर्हस्तो नो नैव । is सुप्रसारकः सुखेन प्रसारयितुं शक्यः । कथं हि निरुपकारिणा पर: प्रतिदिनं प्रार्थयितुं शक्यते ? उत्तरस्य 'इति' शब्दस्यात्र योगादित्यतो हेतोः श्रेयान् । 15 प्रशस्योऽगारवासो गार्हस्थ्यं, तत्र हि न कोऽपि प्रार्थ्यते, स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत्, बहुसावद्यो हि गृहवासः, कथं श्रेयानिति सूत्रार्थः ।।२९।। उदाहरणसम्प्रदायश्चात्र, तथाहि -
अस्त्यत्र भरते स्वर्ण-मयी त्रिदशनिर्मिता । प्रतिबिम्बमिव स्वर्ग-लोकस्य द्वारका पुरी ।।१।। बलार्धचक्रिणी राम-कृष्णाह्रौ विश्वविश्रुतौ । तत्राऽभूतां वसुदेव-रोहिणीदेवकीसुतो ।।२।।
liol lel
||७||
||
||७|
IST
all lall
JainEducation international
For Personal Private Use Only