________________
उत्तराध्ययन
सूत्रम् १२७
తాత తంత్రాల
Jain Education International
किञ्चाखिलो विपाकोऽय-मस्ति स्वकृतकर्मणः । दुःखाय नोपसर्गस्त-त्सतां कर्मजिघांसताम् ।। ३९ ।। अवश्यं नाशिनो बाह्य स्याङ्गस्याऽस्य कृते ततः । कोपः कार्यो नान्तरङ्ग-ध्रुवधर्मधनापहः ।। ४० ।। " स्कन्दकेनेति निर्याम्य-माना निर्मलमानसाः । महात्मानो विपक्षे च मित्रे च समदृष्टयः ।। ४१ ।। यन्त्रपीडनपीडां तां, क्षममाणाः क्षमाधनाः । केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् ! ।। ४२ ।। (युग्मम् ) द्रुतं हतेषु तेनैवं, ह्यूनपञ्चशतर्षिषु । एकं क्षुल्लकमुद्दिश्य, पालकं स्कन्दकोऽवदत् ।। ४३ ।। अनुकम्प्यमिमं बालं, पीड्यमानं निरीक्षितुम् । नाहं शक्ष्यामि नियतं पूर्वं पीडय मां ततः । ।। ४४ ।। तच्छ्रुत्वा पालकस्तस्य, भूरि दुःखविधित्सया । गुरो: पश्यत एव द्राक्, प्राक् तं बालमपीडयत् ! ।। ४५ ।। शुक्लध्यानसुधासार- शान्तकर्महुताशनः । बालः सोऽपि महासत्त्वो महानन्दमविन्दत । ।। ४६ । तद्वीक्ष्य स्कन्दकाचार्य:, क्रुद्धोऽन्तर्ध्यातवानिति । अनेन सपरीवारः, पापेनाऽस्मि विनाशितः ! ।। ४७ ।। क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः । निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः ।। ४८ ।। अयं भूपोऽपि निग्राह्यो- स्मद्विनाशनिबन्धनम् । उपेक्षाकारिणोऽस्माकं बध्या जानपदा अपि ! ।। ४९ ।। तदुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् । तदाहं दाहकोऽमीषां भूयासं भाविजन्मनि ! ।। ५० ।। इत्थं कृतनिदानः स, पीडितस्तेन दुर्धिया । मृत्वा वह्निकुमारेषु, सुरेऽभूत्परमर्द्धिकः ।। ५१ ।।
For Personal & Private Use Only
TTTTTTT
परीषहनाम
द्वितीयमध्ययनम्
१२७
www.jainelibrary.org