SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ पछा ell उत्तराध्ययन सूत्रम् १२६ Mall || ll |Isll lloll Talil ७ परीषहनाम द्वितीयWell मध्ययनम् Mail Mall Io Poll Poll ||Gll ||ll ||sil दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् । अकार्य विद्यते किञ्चि-नाऽविमृश्य विधायिनाम् ।। २६ ।। पापस्य पालकस्यैव, तानिबद्ध्यार्पयनृपः । यत्तुभ्यं रोचते तत्त्व-मेषां कुर्या इति ब्रुवन् ! ।। २७।। मूषकानिव मार्जार-स्तान् प्राप्य मुदितोऽथ सः । संयतान् संयतान्मर्त्य-पीडायन्त्रान्तिकेऽनयत् ।। २८।। इति प्रोचे च रे ! यूय-मिष्टं स्मरत दैवतम् । इदानीं पीडयिष्यामि, यन्त्रेणानेन वोऽखिलान् ।। २९ ।। ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः । जीविताशामृत्युभीति-विप्रमुक्ता मनस्विनः ।।३०।। गृहीतालोचना सम्यक्, मैत्रीभावमुपागताः । पर्यन्ताराधनां सर्वे, विदधुर्विधिपूर्वकम् ! ।।३१।। (युग्मम्) . मर्त्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा । द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनस्विभिः ।।३२।। इत्यादि वदतोत्साह्य-मानाः स्कन्दकसूरिणा । अभवंस्ते विशेषेण, स्वदेहेऽपि गतस्पृहाः ! ।।३३।। (युग्मम्) क्रूराशय: क्रूरकर्मा, क्रूरगी: पालकस्ततः । एकैकं श्रमणं यन्त्रे, क्षेपं क्षेपमपीडयत् ।।३४।। पीड्यमानान् विनेयान् स्वान्, वीक्ष्यान्तर्दह्यतामयम् । इति स स्कन्दकं यन्त्र-पार्श्वे बद्धमधारयत् ।। ३५।। पीड्यमानानगाराङ्गो-च्छलच्छोणितबिन्दुभिः । समन्ताद्भियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः ! ।।३६।। किन्तु साम्यसुधास्पन्द-भावितैः समयोचितैः । वाक्यैर्निर्यामयामास, तानेवं स महाशयः ! ।।३७।। "भिन्नः शरीरतो जीवो, जीवाद्भित्रश्च विग्रहः । विदनिति वपु शेऽप्यन्त: खिद्येत कः कृती ? ।।३८।। Noll |loll llol Jain Education intensia For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy