________________
lialll
उत्तराध्ययन
सूत्रम् १२४
liell
is परीषहनाम
द्वितीयमध्ययनम्
Isl
me
Joil Jell
Isl
||sil
अभूनगर्यां श्रावस्त्यां, जितशत्रुर्महीपतिः । सधर्मचारिणी तस्य, धारिणी सज्ञिकाऽभवत् ।।१।।
गौरीशयोः स्कन्द इव, स्कन्दकोऽभूत्सुतस्तयोः । पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता ।।२।। Rell तदा दण्डकि भूपोऽभू-त्कुम्भकारकृते पुरे । पुरोहितस्तु तस्याऽऽसी-दभव्य: पालकाभिधः ! ।।३।।
तेन दण्डकिसज्ञेन, भूभृता भूरिभूतिना । पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा ।।४।। isi Isl अन्यदा सुव्रतस्वामी, भव्याम्भोजनभोध्वगः । श्रावस्त्यां समवासार्षी-त्सुरासुरनमस्कृतः ।।५।।
धन्यमन्यः स्कन्दकोऽगा-तं नन्तुं परमेश्वरम् । श्रुत्वा तद्देशनां श्राद्ध-धर्मञ्च प्रत्यपद्यत ।।६।। पुरोधाः पालक: सोऽथ, कुम्भकारकृतात्पुरात् । केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ।।७।। स च भूपसभामध्ये, कुर्वनिर्ग्रन्थगर्हणाम् । द्रुतं निरुत्तरीचक्रे, स्कन्दकेन महाधिया ।।८।। पापः प्राप ततो द्वेषं, पालकः स्कन्दकोपरि । अपकर्तुम्पुनःकिञ्चि-त्तस्य न प्राभवत्तदा ।।९।। कृतप्रस्तुतकृत्योऽथ, पालक: स्वास्पदं ययौ । जगाम न तु तचित्ता-त्कोप: स्कन्दकगोचरः ।।१०।। अथ श्रीसुव्रतस्वामि-पादान्ते दान्तमानसः । प्राव्राजीत्स्कन्दक: साकं, मानां पञ्चभिः शतैः ।।११।।
क्रमाद्बहुश्रुते जाते, स्कन्दके सुव्रतप्रभुः । तस्मै शिष्यतया तानि, 'पञ्च साधुशतान्यदात् ।।१२।। १. मुनिपञ्चशतान्यदात् । इति 'ग' सञ्जकपुस्तके ।।
lel IIGI Isil Ill lall llol liell
all 11
Isl
ell ||७|| ||७|| ||l 1161
१२४
leel
Irel
For Personal
Use Only