________________
उत्तराध्ययन
सूत्रम्
१२३
llol
ततश्चिरं स प्रतिबोध्य भव्यान्, मुक्तिं ययावर्जुनमालि साधुः । एतद्वदाक्रोशपरीषहोन्यै-रपि क्षमाढ्यैः श्रमणैर्विषह्यः ।।५४।।
परीषहनाम इत्याक्रोशपरीषहेऽर्जुनमालिकर्षिकथा ।। १२ ।।
द्वितीयअथ कश्चिदाक्रोशमात्रदानेनातुष्यन् वधमपि विदध्यादिति वधपरीषहमाह -
मध्ययनम्
61 हओ न संजले भिक्खु, मणंपि न पओसए । तितिक्खं परमं नञ्चा, भिक्खुधम्मं विचिंतए ।।२६।।
व्याख्या - हतो यष्ट्यादिभिस्ताडितो न सञ्चलेत, कायत: कम्पनप्रत्याहननादिना, वचनतश्च प्रत्याक्रोशदानादिना ज्वलन्तमिवात्मानं il नोपदर्शयेद्भिक्षुर्मनश्चित्तं तदपि न प्रदूषयेत् न कोपाद्विकृतं कुर्वीत, किन्तु तितिक्षां क्षमां परमां धर्मसाधनं प्रति प्रकर्षवती ज्ञात्वा अवगत्या il भिक्षुधर्म यतिधर्म क्षान्त्यादिरूपं वस्तुस्वरूपं वा विचिन्तयेत्, भावयेञ्च क्षमामूल एव मुनिधर्मो, यञ्च मनिमित्तमयं कर्मोपचिनोति, सोऽपि ॥ ममैव दोष इति नैनं प्रति कोप उचित इति सूत्रार्थः ।। २६।। अमुमेवार्थ प्रकारान्तरेणाह -
समणं संजयं, दंतं, हणेजा कोवि कत्थइ । नत्थि जीवस्स नासोत्ति, एवं पेहिज्ज संजए ।।२७।।
व्याख्या - श्रमणं तपस्विनं, संयतं पृथ्वीकायादिहिंसानिवृत्तं, इदञ्च लाभाद्यर्थं बाह्यवृत्त्यापि सम्भवेदत आह-दान्तमिन्द्रियनोइन्द्रियदमेन, कि on हन्यात्ताडयेत्कोऽपि तादृशो दुष्टः, कुत्रचिद्ग्रामादौ, तत्र किं कार्यमित्याह-नास्ति जीवस्यात्मन उपयोगलक्षणस्य नाशोऽभावः, शरीरस्यैव । 18 नाशात् । 'इति:' पूणे, ‘एवं' स्वरूपार्थे, प्रेक्षेत भावयेत्संयतः साधुरिति सूत्रार्थः ।। २७ ।। निदर्शनञ्चात्र, तथाहि - १. मुक्तिं ययावर्जुनमालिकर्षिः । इति 'ग' सञ्जकपुस्तके ।।
||७॥ ||७||
llsill
lell l6ll Isil
lol
lish
Ifoll ||oll Iol
lal min Education International
For Personal & Private Use Only
www.jainelibrary.org