________________
उत्तराध्ययन
सूत्रम्
lls परीषहनाम
द्वितीयमध्ययनम्
१२२
Nell Hell
Isl
श्रीवर्धमानतीर्थेश-पादपद्मौ प्रणम्य तौ । सम्यक् शुश्रुवतुर्धर्म-देशनां क्लेशनाशिनीम् ।। ४२।। देशनान्ते च सर्वज्ञ, प्रणम्यापृच्छदर्जुन: । स्वामिन् ! कथं विशुद्धिर्म, भवेद्बहुलपाप्मनः ।। ४३।। अथोचे भगवांस्त्वं चे-दात्मशुद्धिं चिकीर्षसि । तर्हि संयममादाय, तपस्तप्यस्व दुस्तपम् ।। ४४।। मलं स्वर्णगतं वह्नि-हंस: क्षीरगतं जलम् । यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः ।। ४५।। यथाम्बुदा विलीयन्ते, प्रचण्डपवनाहताः । तथा तीव्रतपोऽपास्ताः, पाप्मानः प्रबला अपि ।। ४६।। तन्निशम्यार्जुन: स्वामि-समीपे व्रतमाददे । निर्जरार्थं व्यहार्षीच, पुरे राजगृहे सदा ।। ४७।। निरन्तरं षष्ठतपः, कुर्वन् साम्यसुधाम्बुधिः । साध्वाचारं च सकलं, निष्कलङ्कमपालयत् ।। ४८।। अस्मत्स्वजनहन्ताऽसौ, दुष्टो दुष्कर्मदूषितः । धूर्तो धत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ।। ४९।। इत्याद्यैर्बहुलोकोक्ते-राक्रोशेस्ताडनैस्तथा । स महात्मा न चुक्षोभ, प्रत्युतैवमचिन्तयत् ।।५०।। (युग्मम्) "मन्निन्दया यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे । श्रेयोऽर्थिनो हि मनुजाः परितुष्टिहेतोर्युःखार्जितान्यपि धनानि परित्यजन्ति ।।५१।।" । किञ्च "अक्कोसहणणमारण-धम्मब्भंसाण बालसुलहाणं । लाभं मण्णइ धीरो, जहुत्तराणं अलाभंमि ।। ५२।।" इति ध्यायन् स षण्मासीं, सोढाक्रोशपरीषहः । कृतकर्मक्षयः प्राप, केवलज्ञानमुज्वलम् ।। ५३।।
IGN
Isl
Illl
Illl 161
Nel
||
lal
||
lal
||oll
||oll ||oll
Iroll in Education International
Mall | Gll llar
www.jainelibrary.org
For Personal & Private Use Only